सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( ४३४) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चदश:- कर्तारि चङ् |३|१|४८।' इति चड्। तौ च ताराभ्रातृत्वात् मातुलौ विह्वलौ दृष्ट्वा बालिसुतो अङ्गदः नगैर्वृक्षैः कुम्भं प्रौर्णावदिति वक्ष्यमाणेन सम्बन्धः ॥ ११८ ॥ मौर्णावीच्छरवर्षेण तानपौहीन्निशाचरः । वानरानैजिहद्रामस्तूर्णं रक्षितुमङ्गदम् ॥ ११९ ॥ प्रौणवीदित्यादि- - प्रौर्णावीत् छादितवानित्यर्थः ।‘विभाषोर्णोः । १ । २ । ३ ।' इत्याङित्त्वपक्षे रूपम् । स च निशाचरस्तान्नगान निरस्तवान् । 'उपसर्गादस्यत्यूयोर्वा वचनम्' इत्यात्मनेपदविकल्पः । शरवर्षेणापौहीत् रामश्च तद्धनुष्कौशलं दृष्ट्वा अङ्गदं रक्षितुं तूर्णं वानरानजिहत् व्यापारितवान् । ईहतियन्तः ॥ ११९ ॥ द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं शत्रुसङ्कटात् । मुष्टिना कौम्भकणि च क्रुद्धः प्राणैरतित्यजत् ॥ १२० ॥ द्रुतमित्यादि --सुग्रीवस्तस्माच्छत्रुसङ्कटात् भ्रातृव्यं भ्रातुरपत्यम् । 'भ्रातु- र्व्यच्च । ४ । १ । १४४ । द्रुतमत्रास्त रक्षितवात् । अग्रतो भूत्वा । 'त्रैड् थालने ।' कौम्भकार्ण कुम्भकर्णपुत्रं कुम्भं क्रुद्धः सन् मुष्टिना प्राणैरतित्यजत् ज्याजितवान् । त्यजिर्ण्यन्तः ॥ १२० ॥ निकुम्भो वानरेन्द्रस्य माहेषीत्परिघं ततः । हनुमांश्चापतन्तं तमभाङ्क्षीद्भोगिभीषणम् ॥ १२१ ॥ निकुम्भ इत्यादि -- ततो भ्रातृवधात् निकुम्भो वानरस्य सुग्रीवस्य परिघं प्रह्रैषीत् प्रहितवान् । ‘हि गतौ ।' परिघमापतन्तं निकुम्भात् । भोगिभीषणम् अहिवत् भीषणम् हनुमानभाङ्क्षीत् भग्नवान् ॥ १२१ ॥ मौर्णुवीत्तेजसारातिमरासीच्च भयङ्करम् । ग्रीवां चास्य तथाकाक्षीदजिजीवद्यथा न तम् ॥ १२२ ॥ प्रौर्णुवीदित्यादि-परिघं च हनूमान् तेजसा प्रौर्णुवीत् अभिभूतवान् । ङित्त्वादवृद्धिगुणपक्षे रूपम् । भयंकरं चारासीत् शब्दितवान् । अस्य निकुम्भ- ·स्य च श्रीवां तथाऋाक्षीत् आकृष्टवान् । अमागमपक्षे रूपम् । यथा तं नाजिजी- चत् न जीवति स्म । ग्रीवामाकृष्यैव व्यापादितवानित्यर्थः । 'भ्राजभासभाष- दीपजीव मीलपीडामन्यतरस्याम् |३|२|१७७|' इत्यहस्वपक्षः || १२२ ।। १ पराक्रमेणेति भावः । 'तेजः प्रभावे दीप्तौ च बले शुक्रेऽपि इत्यमरः ।