( ४२६ ) भट्टिकाव्ये जयमङ्गलासमेते- [पञ्चदशः- - एष इत्यादि – य एवं स रावणिः रावणात्मजः आपादि अस्माकं समी-- पमागतः । 'पद् गतौ' । 'चिण् ते पदः | ३ | १ | ६० |' इति चिण् । यतो रावणिर्वानराणां भयङ्करः अथ सोऽतिकायः समीपमागतः । काकुत्स्थमाहृत युद्धायाहूतवान् 'आत्मनेपदेष्वन्यतरस्याम् । ३ । १ । ५४ ।। इत्यङ् । धनुश्च गुरु महदपुस्फुरत् स्फारितवान् । 'चिस्फुरोण । ६ । १ । ५४ ।' इत्यात्वम् ॥ ८९ ॥ सौमित्रिः सर्पवत् सिंहमार्दिदत् तं महाऽऽहवें | तौ प्रावीवृततां जेतुं शरजालान्यनेकशः ॥ ९० ॥ सौमित्रिरित्यादि - - यथा सर्पः सिंहं गच्छति तद्वत्तमतिकायमार्दिदत् गत- वान् । 'अर्द गतौ ।' अर्दनमर्दः । तत्करोतीति णिच । तदन्ताञ्चङि रूपम् । 'अर्द हिंसायाम् ' इति चौरादिको वा । तौ सौमित्र्यतिकायौ जेतुं शरजालानि प्रावीवृततां बहूनि प्रवर्तितवन्तौ उर्ऋत् । ७।४। ७ ।' इति ‘णौ चङथुपघाया' अपवाद ऋकारः ॥ ९० ॥ 6 अच्छेत्तां च महाऽऽत्मानौ चिरमश्रमतां न च । तथा तावास्थतां बाणानतानिष्टां तमो यथा ॥ ९१ ॥ अच्छेत्तामित्यादि---तौ च महात्मानौ परस्परस्य शरजालानि अच्छेत्तां छिन्नवन्तौ । 'इरितो वा । ३ | १|५७ ।' इत्यङभावपक्षे रूपम् । 'झलो झलि । ८ । २ । २६ ।' इति सिचो लोपः । चिरं चिरेणापि नाश्रमतां न श्रान्तौ । श्रमिः पुपादिः । तौ तथा वाणावास्थतां क्षिप्तवन्तौ । 'अस्यतिवक्ति- ख्यातिभ्योऽङ् । ३ । १ । ५२ ।' इत्यङ् 'अस्यतेस्थुक् । ७ । ४ । १७ ।' यथा अन्धकारमतानिष्टां विस्तारितवन्तौ । 'अतो हलादेघोः |७|२ । ७ ।' इति वृद्धिविकल्पः ॥ ९९ ॥ सौर्याग्नेये व्यकारिष्टामस्त्रे राक्षसलक्ष्मणौ । ते चोपागमतां नाशं समासाद्य परस्परम् ॥ ९२ ॥ सौर्याग्नये इत्यादि --राक्षस: सौर्य सूर्यदेवताकमस्त्रं व्यकारीत विक्षि- तवान् 'कृ विक्षपे ।' लक्ष्मणोऽप्याग्नेयम्, इत्येवं तौ व्यकारिष्टाम् । ते चास्त्रे परस्परमासाद्य प्राप्य नाशमुपागमताम् । लदित्त्वादङ् ।। ९२ ।। १ 'अत इञ् ४ । १ । ९५ ।' इतीज् । २ एतादृश उपमानोपमेयभावः 'कुमारा विशिखा इव' इतिवत् न रमणीयः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४६४
दिखावट