सर्म: ] तिङकाण्डम् । अस्ताविषुः सुरा राम दिशः प्रापन निशाचराः | भूरकम्पिष्ट साद्रीन्द्रा व्यचालीदम्भसां पतिः ॥ ७० ॥ अस्ताविषुरित्यादि- तस्मिन् हते सुरा देवा राममस्ताविषुः स्तुवन्ति स्म । ‘स्तुसुधूञ्भ्यः परस्मैपदेषु । ७ । २ । ७२ ।। इतीट् । निशाचरास्तद्भयाद्दिशः प्रापन् प्राप्तवन्तः । 'आप्ल व्याप्तौ ।' साद्रीन्द्रा सकुलपर्वता भूमिरकम्पिष्ट चलति स्म । महाकायस्य निपतनात् अम्भसां पतिः समुद्रो व्यचालीत् प्रक्षु- भितवान् ॥ ७० ॥ हतं रक्षांसि राजानं कुम्भकर्णमारीश्रवन् । (४२१) अरोदीद्रावणोऽशोचीन् मोहं चाशिश्रियत् परम् ।। ७१ ।। हतमित्यादि-हतं व्यापादितं कुम्भकर्ण रक्षांसि राजानं रावणमशिश्रवन् आवितवन्तः । शृणोतेर्ण्यन्तात् सनीव कार्यमिति 'स्रवतिशृणोतिद्रवति - प्रवतिप्लवतिच्यवतीनां वाः ॥ ७ ॥४॥८१ |' इत्यभ्यासस्य विकल्पेनेत्त्वम् । एवं च कृत्वा अशुश्रुवन्निति पाठान्तरम् । द्विकर्मकता तु बुद्धयर्थत्वात् श्रुत्वा च रावणोऽरोदीत् अश्रूणि मुमोच । अशोचीत् शोचति । 'तेनापि त्यक्तोऽस्मि' इति । परं च मोहं मूर्च्छामशिश्रियत् । 'श्रिञ सेवायाम्' । 4णिश्रिद्रुभ्यः कर्त्तरि चङ् | ३।१।४८।' इति चङ् ॥ ७१ ॥ अथ द्वाभ्यांयुग्मकम् । अपप्रथद् गुणान् भ्रातुरचिकीर्तच्च विक्रमम् । क्रुद्धेन कुम्भकर्णेन येऽदर्शिषत शत्रवः ॥ ७२ ।। अपप्रथदित्यादि - भ्रातुर्गुणान् बुद्धिमत्त्वादीनपप्रथत् प्रख्यापितवान् । 'प्रथ प्रख्याने’ घटादिः । तस्मात् ण्यन्ताच्चडि 'अत् स्मृदृत्वरप्रथम्र दस्तृस्पशाम् । ७ । ४ । ९५ ।' इत्यत्त्वम् । विक्रमं च शौर्यमचिकीर्तत् उदीरितवान् । 'कृत संशब्दने' इति चौरादिकः 'जितेर्वा |७|४||६|' इत्यधिकृत्य 'उर्ऋत् ॥ ७॥४॥७॥ इति ऋकाराभावपक्षे रूपम् । उपधायाश्च |७|१|१०१|' इतीत्वम् । विक्र- मकीर्तनं चाह -कुन क्रोधकत्री कुम्भकर्णेन मे शत्रवोऽदर्शिषत दृष्टाः । कर्माणि लुङ् । 'स्यसिसीयुट्तासिषु भावकर्म्मणोरुपदेशेऽज्झनग्रहदृशां वा चिण्वदि च ||६|४६२ |' इति दृशेश्चिवदिट् ॥ ७२ ।।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५९
दिखावट