पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४२०) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चदशः -- सहास्पर्धिष्ट योद्धुं स्पर्धेते स्म । तेन रामेणास्य कुम्भकर्णस्य इषवः आक्षेप्सत क्षिप्ताः कर्माण लुङ् | हलन्तादात्मनेपदे सिच: कित्त्वाद् गुणाभावः ॥ ६५ ॥ यैरघानि खरो वाली मारीचो दूषणस्तथा । अवामंस्त स तान् दर्षात् प्रोदयसीच्च मुद्गरम् ।। ६६ ।। यैरित्यादि-यैः शरैश्च खरोऽघानि व्यापादितः । कर्मणि लुङ् । ते अक्षि प्सतेति योज्यम् । स कुम्भकर्णस्तान् नन् दर्पादवामस्त अवमन्यते स्म । मुद्गरं ओदयंसीत् उद्भूर्णवान् । 'यमरमनमातां सक् च |७|२|७३ |' इति सगिटौ ॥६६॥ वायव्यास्त्रेण तं पाणि रामोऽच्छेत्सीत्सहायुधम् । अदीपि तरुहस्तोऽसावधावीच्चारिसंमुखम् ॥ ६७ ॥ वायव्यास्त्रेणेत्यादि - येन पाणिना मुद्गरमुदयंसीत् पाणिं सहायुधं रामो वाय- व्यास्त्रेण मरुद्देवतादत्तेन अच्छेत्सीत् । छिन्नपाणिश्चासौ तरुहस्तः तरुर्हस्ते यस्यति तरोः प्रहरणत्वात् सप्तम्यन्तस्य परनिपातः । अदीपि दीप्यते स्म 'दीपजन बुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ||३|१|६१ | इति कर्तरि चिण् । अरिसंमुखं च रामाभिमुखमधावीत् वेगेन गतवान् ॥ ६७ ।। सवृक्षमच्छिदत्तस्य शक्रास्त्रेण करं नृपः । जङ्घे चाशीशतद्वाणैरमासीदिषुभिर्मुखम् || ६८ ॥ स वृक्षमित्यादि - तस्य सवृक्षमपि करं नृपो रामः शक्राखेणाच्छिदत् 'इरितो वा ।३।१।५७।' इत्यङ् । जङ्गे चान्यैर्बाणैरशीशतत् । गमनासमर्थे कृतवान् । शदेर्णौ ‘शदेरगतौ तः ।७३ | ४२ || इति तत्वम् | मुखं चेषुभिरप्रासीत् पूरित वान् । 'प्रा पूरणे' ।। ६८ ॥ - ऐन्द्रेण हृदयेऽव्यात्सीत् सोऽध्यवात्सीच्च गां हतः । अपिक्षातां सहस्रे द्वे तद्देद्देन वनौकसाम् ।। ६९ ।। ऐन्द्रेणेत्यादि - ऐन्द्रेण इन्द्रदेवताकेन शरण हृदयेऽव्यात्सीत् विद्धवान् । स तथा हतो गामध्यवात्सीत् भूमिमध्युषितवान् । तस्य रक्षस: पततो देहेन वनौकसां वनमोको निवासो येषां तेषां वानराणां द्वे सहस्रे अपिक्षातां चूर्णिते। 'पिष्टृ संचूर्णने' । कर्मणि लुङ् ॥ ६९ ॥ १ मरुद्देवता केनेति वक्तव्यम्, विश्वामित्रतरप्रसादात् कस्याप्यस्त्रस्यानधिगतत्वात् ।

  • सास्य देवता | ४|२|२४| इत्यधिकारे 'बाय्वृतुपित्रुषसो यत् ||४|२|३१|| इतिशास्त्रेण

साधितेन वायव्यपदेनापि वायुदवता कत्वमेव बोध्यते । २ 'ओक: सद्माश्रय चौका इत्यमरः ।