पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङ्काण्डम् । ॥ स्म । कांश्चिन्नियं अग्रसिष्ट व्यधाविष्ट समाश्लिक्षच निर्दयम् | ते चाप्यघोरिषुर्घोरं रक्तं चावमिषुर्मुखैः ॥ ६२ अग्रसिष्टेत्यादि -- कुम्भकर्ण: कांश्चिदग्रसिष्ट समालित्। 'लष आलिङ्गने' | 'शिलषः । ३ । १ । ४६ ।' इति क्सः । ते चाश्लिष्टाः महाघोरं श्रुतिकटुम् अघोरिषुः शब्दमुक्तवन्तः । 'धुर भीमार्थशब्दयोः' इति तुदादिरनुदात्तेत् । रक्तं चावमिषुः उद्गीर्णवन्तः ॥ ६२ ॥ स चापि रुधिरैर्मत्तः स्वेषामप्यदयिष्ट न । (४१९) आग्रदीच्चायुरन्येषामरुद्ध च पराक्रमम् ॥ ६३ ।। स चेत्यादि - - स चापि कुम्भकर्णः रुधिरैर्मत्त: स्वेषामपि नादयिष्ट न दयां कृतवान्, किमपरेषाम् । 'अधीगर्थदयेशां कर्म्मणि । २ । ३ । ५२ ।। इति षष्ठी । अन्येषां वानराणाम् आयुर्जीवितमग्रहीत् गृहीतवान् 'हृयन्तक्षण- श्वसजागृणिश्व्येदिताम् |७|२|५|' इति न वृद्धि: । 'अदोहीवायुः' इति पाठान्तरम् । तत्र तथाभूतं कुम्भकर्ण दृष्टवतामन्येषामायुरदोहीव स्वयं तमि ||३|१|६३ || इति कर्मकर्तरि चिण् । पराक्रमं चान्येषामरुद्ध च आवृतवान् । रुधेः कर्माभिप्राये तङ् । 'झलझल |८|२|२६|| | इति सिचो लोपः । 'झषस्तथोऽधः । ८ । २ । ४० ।' | 'झलां जय झशि |८|४|५३|' || ६३ ॥ संत्रस्तानामपाहारि सत्त्वं च वनवासिनाम् । अच्छेदि लक्ष्मणेनास्य किरीट कवचं तथा ॥ ६४ ।। त्रस्तानामित्यादि - तेन च वनवासिनां सत्त्वमपाहारि अपहृतम् । सर्वेषां त्रस्तत्वात् । कर्मणि लुङ । तथा लक्ष्मणेन अस्य कुम्भकर्णस्य किरीट मुकुटं तथा कवचमच्छेदि छिन्नम् | कर्मणि लुङ् ॥ ६४ ।। । अथ द्वाभ्यां युग्मकम् । 4. अभेदि च शरैर्देहः प्राशंसीत्तं निशाचरः । अस्पर्धेिष्ट च रामेण तेनास्याक्षिप्सतेषवः ।। ६५ ।। 1 अभेदीत्यादि – देहश्चास्य लक्ष्मणस्य शरैः करणभूतैरभेदि छिन्नः । निशा

चरश्च तं लक्ष्मणं प्राशंसीत् स्तुतवान् । 'साधु भवता युद्धम्' इति । रामेण

१ अन्नार्थापत्तिः ।