(४१६) भट्टिकाव्ये जयमङ्गलास मेते- [ पञ्चदश:- अतृषन् तृषन्ति स्मं । 'ञितृषा पिपासायाम् ।' पुषादित्वादङ् । नृपो राम- स्तैर्भग्नैरुपास्थायि उपस्थापितः । अन्तर्भावितो व्यर्थः । कर्मणि चिण् । असौ रामः सुप्रीवमैजिहत् योद्धुमीहां कारितवान् । ईहतेर्ण्यन्ताच्चङि । ‘द्विर्वचनेऽचि । १ । १ । ५९ ।। इति स्थानिवद्भावात् द्वितीयस्य द्विवचनम् । आट् । वृद्धिः । योद्धुमिति वंक्ष्यमाणेन योज्यम् ॥ ५१ ॥ योद्धुं सोऽप्यरुषच्छन्त्रोरैरिरच्च महाद्रुमम् । तं प्राप्तं प्रासहिष्टारिः शाक्तं चोग्रामुग्रहीत् ॥ ५२ ॥ - । योद्धुमित्यादि — सोऽपि सुग्रीवः अरुषत् क्रुध्यति स्म । 'रुप रोषे" पुषादिः । शत्रोश्च द्रुममैरिरत् क्षिप्तवान् । 'ईर क्षेपे' इति स्वार्थिकण्यन्तस्य रूपम् । तं द्रुमं प्राप्तमारः कुम्भकर्णः प्रासहिष्ट प्रसहते स्म । शक्ति चोग्रां प्राणहरामुग्रहीत् उद्गृहीतवान् ॥ ५२ ॥ स तामबिभ्रमद्भीमां वानरेन्द्रस्य चामुचत् | प्रापप्तन् मारुतिस्तत्र तां चालासीद्वियद्गताम् ॥ ५३ ॥ 11 अमुचत् स तामित्यादि - - तां गृहीतां शक्तिं स कुम्भकर्णः अबिभ्रमत् भ्रमयति स्म । भ्रमेयेन्ताच्चङि रूपम् । वानरेन्द्रस्य सुग्रीवस्योपरि मुक्तवान् । 'पुषादिद्युतालृदितः | ३ | १ | ५५ ।' इति लदित्त्वादङ् । तत्र तस्यां मुक्तायां मारुतिर्हनूमान् प्रापप्तत् प्रत्युपस्थितः । लृदित्त्वादङ् । 'पत: पुम् |७|४|१९ ।' इति पुमागमः । तां च वियद्गतामलासीत् आप्तवान् । 'ला आदाने ।' 'यमरमनमातां सक् च |७|२|७३|| इति सगिटौ ॥ ५३ ॥ अथ द्वाभ्यां युग्मक॑म् । अशोभिष्टाचखण्डञ्च शक्तिं वीरो न चायसत् । लौहमारसहस्त्रेण निर्मिता निरकारि मे ॥ ५४ ॥ अशोभिष्टत्यादि — असौ गृहीतशक्तिर्वीरः अशोभिष्ट शोभते स्म । शक्ति- मचखण्डच्च भग्नवान् । 'खड खाड भेदने' चौरादिकः । तां च खण्डय- नायसत् यस्यति स्म । 'यसु प्रयत्ने ।' पुषादिः । लौहभारसहस्रेण निर्मिता घटिता मम शक्तिर्निरकारि भग्ना अनेनेति रक्षः कुम्भकर्णोऽकुप दिति वक्ष्यमाणेन सम्बन्धः ॥ ५४ ॥ १ क्षतादिना रक्ते निःसृते तृपा जायत एवेति यथोक्तम् । २ उद्यमं न चकार ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५४
दिखावट