पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] तिङकाण्डम् । शक्तिरत्यकुषद्क्षो गिरिं चोदखनीद्गुरुम् । व्यसृष्ट तं कपीन्द्रस्य तेनामूच्छदसौ क्षतः ॥ ५५ ॥ (४१७) शक्तिरित्यादि -- अकुपत् कुपित: 'कुप क्रोधे' पुषादिः । गिरिं च गुरुमुदखनत् उत्खातवात् । 'अतो हलादेलंघोः |७|२|७|' इति वृद्धध भावपक्षे रूपम् । कपीन्द्रस्य सुग्रीवस्योपरि तं च गिरिं व्यसृष्ट विसृष्ट वान् । 'सृज विसर्गे' अनुदात्तेत् । तस्माद्धलन्तादात्मनेपदे सिच: कित्त्वे गुणाभावः । असौ कपीन्द्रस्तेन क्षतः हतः सन् अमूर्च्छत् मोहमुपगतः॥५५॥॥ अलोठिष्ट च भूपृष्ठे शोणितं चाप्यसुखवत | तमादायापलायिष्ट व्यरोचिष्ट च राक्षसः ॥ ५६ ॥ अलोठिष्टेत्यादि-मुच्छितश्च भूपृष्ठे अलोठिष्ट लुठते स्म । 'रुठ लुठ प्रति- घाते ।' इति द्युतादिः । 'यो लुङि |१|३|९||' इति परस्मैपदविकल्पेनात्मने पदम् । अस्य शोणितं च व्यवत् स्रुतम् । 'णिश्रिद्रुस्रुभ्यः कर्तरि चङ् ३।१।४८।' इति चङ् । तं सुप्रीवनादाय राक्षसः कुम्भकर्णः अपलायिष्ट पलायते स्म । व्यरोचिष्ट रोचते स्म । 'रुच दीप्तौ' ॥ ५६ ॥ अथ द्वाभ्यां युग्मकम् -- अभैषुः कपयोऽन्वारत्कुम्भकर्ण मरुत्सुतः । शनैरबोधि सुग्रीवः सोऽञ्चीत्कर्णनासिकम् ॥ ५७ ॥ अभैषुरित्यादि—तस्मिन्नीते कपयोऽभैषुः भीताः । मरुत्सुतः कुम्भकर्ण- मन्वारत् अनुगतः। अर्तेः 'सर्तिशास्त्यतिभ्यश्च |३|१|५६|' इत्यङ् । 'ऋदृशोऽडि गुणः।७।४।१६।' इति गुण: । सुग्रीवः शनैर्मनागबोधि लब्धसंज्ञो बभूव । 'दीप-- जनबुधपूरितायिप्यायिभ्योऽन्यतरस्याम् ||३|१||६१ |' इति बुधेः कर्तरि चिण् । स बुद्धः कर्णनासिकम् । प्राण्यङ्गत्वादेकवद्भावः । अस्यालु चीत् कृत्तवान् राक्षसस्येति वक्ष्यमाणेन सम्बन्धः ॥ ५७ ॥ राक्षसस्य न चात्रासीत् मनंष्ट्रमयतिष्ट च । अक्रोधि कुम्भकर्णेन पेष्टुमारम्भि च क्षितौ ॥ ५८ ॥ राक्षसस्येत्यादि - राक्षसस्य कुम्भकर्णस्य सम्बन्धे स सुग्रीवो न चात्रासीत् न त्रस्तः राक्षसात् प्र पलायितुम् । मस्जिनशोर्झलि । ७७११६० १ महान्तम् । २ 'द्वन्द्वश्च प्राणितूर्य सेनाऽङ्गानाम् ||२|४|१२|' इति शास्त्रेणेति शेषः । २७