( ३६६) भट्टिकाव्ये जयमङ्गलासमेते- अथ आख्यातमालाशाली । अमुर्ववलगुर्न नृतुर्जजक्षुर्जगुः समुत्पुप्लुविरे निषेदुः । आस्फोटयांचक्ररभिप्रणेदू रेजुर्ननन्दुर्विययुः समीयुः ॥ २८ ॥ - भ्रेमुरित्यादि – ते पारं प्राप्य केचित् प्रदेशदर्शनोत्सुकाः भ्रमुः भ्रान्ताः । अन्ये ववल्गुः तोषं गतवन्तः । 'उख उखि' इत्यत्र वल्गतिर्गती पठ्यते । केचिदतिहर्षात् ननृतुः । अन्ये रावणपराक्रमान् न्यक्कुर्वन्तो जजक्षुः हसितवन्तः । बुभुक्षया वा फलानिं भक्षितवन्तः । 'जक्ष भक्ष- हसनयोः ।' केचित् जगुः गायन्ति स्म । केचित्समुत्पुप्लुविरे उत्प्लुत्योत्प्लुत्य गच्छन्ति स्म । केचित् भ्रान्ता निषेदुः निषण्णा: । केचिदास्फोटयांच- कुर्वयं युध्यम इति आस्फोटं कुर्वन्तिस्मेति ण्यन्तांल्लिट्याम् | केचित्तोषाद • भिप्रणेदुः सुष्ठु नादितवन्तः । केचिद्रेजुः दीप्तवन्तः । केचिन्ननन्दुर्वयमी- दृशं कर्म कृतवन्त इति । अन्ये विययुरितस्ततो गच्छन्ति स्म । केचित्स- मीयुः एकत्र संगताः । आख्यातमालेति तिङन्तमाला ।। २८ ।। अथ द्वाविंशतिः सङ्कीर्णा: श्लोकाः । गिरिपङ्क चारुदेहं कक्कोललवङ्गबद्धसुरभिपरिमलम् । बहुबहलोरुतरङ्गं परिसरमारूढमुद्धरं लवणजलम् ॥ २९ ॥ गिरीत्यादि - - गिरीणां प्रक्षिप्यमाणानां यः पङ्कः गैरिकादिधातुकर्दमः तेन चारुदेहम् । कक्कोललवङ्गाभ्यां बद्धः सुरभिः परिमलो गन्धो यस्मिन् । बहवः प्रभूता बहलाः स्थूला उरवः उच्चास्तरङ्गा यस्य तदीदृशं लवणज- लम् । उद्धरम् उद्धृतं कर्तृभूतम् । परिसरं तटमारूढं सेतुना निवारित- गतित्वात् ॥ २९ ॥ . [ त्रयोदश:- लोलं कूलाऽभिगमे खे तुङ्गाऽमलनिबद्धपुरुपरिणाहम् । सुरगङ्गाभरणसहं गिरिबन्धवरेण लवणसलिलं रुद्धम् ॥ ३० ॥ लोलमित्यादि--कूलाभिगमे तटगमने लोलं चञ्चलम् । खे आका तुङ्गं च तदमलं चोते तुङ्गामलम् | निवद्ध: संयुक्तः पुरुर्महान् परिणाहो यस्य । तुङ्गामलं च तन्निरुद्धपुरुपरिणाहं चेति । वियति आरोहपरिणा- हाभ्यां युक्तमित्यर्थः । सुरगङ्गायाः मन्दाकिन्याः यद्भरणं पूरणं तत्र सहं शक्तं वादृशं लवणजलं गिरिबन्धवरण सेतुना रुद्धम् ॥ ३० ॥ १ इतः परं पुनरार्यागीतिश्छन्दः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४०४
दिखावट