(३३४) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वादशः - मातुरुपदेशात् पूर्व- चिकीर्षित इत्यादि--तस्मिन् सीताप्रत्यर्पणलक्षणेऽर्थे तरं पूर्वमेव चिकीर्षिते कर्तुमीप्सिते मात्रा शुभयैव बुद्धया कल्याणया अति- • मात्र मत्यर्थं मुहुः प्रतिक्षणमीर्यमाणः प्रवर्त्त्यमानः स विभीषणः सुधीः आज्ञः चिरकालमभ्यधिकं समाधात् चिन्तितवान् । इदमतिन्याय्यमिति ‘गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु । २ । ४ । ७७ ।' इति सिचो लुक् ॥ इयता प्रबन्धेन उदात्तार्थाभिधानादुदात्तार्थत्वमुक्तम् । इत उत्तरं प्रहस्त- रावण-विभीषण-मातामह-कुम्भकर्णादीनां वचनप्रबन्धेषु चित्राद्भुतार्थत्वं द्रष्ट- च्यम् । स्वविनीतता सुबोधता शब्दानाकुलता चेत्येतदुभयं कथायामेव मन्त्र- निर्णयाख्यायां द्रष्टव्यम् ) ॥ ६ ॥ दौवारिकाऽभ्याहतशऋदूतं सोपायनोपस्थितलोकपालम् । साऽऽशङ्कभीष्माऽऽतविशन्निशाटं द्वारं ययौ रावणमन्दिरस्य ॥ ७॥ दौवारिकेत्यादि- --स विभीषणः रावणमन्दिरस्य द्वारं ययौ । दौवारिकाः द्वारे नियुक्ताः । 'द्वारादीनां च । ७ । ३ | ४ ।' इत्यैच् । तैरभ्याहताः शक्रदूता यस्मिन् द्वारे । सोपायना: गृहीतकौशलिकाः उपस्थिता उपढौकिता लोकपाला न्यत्र | साशङ्काः सभयाः, भीष्मा भयानकाः, आप्ता विश्वासार्हा, विशन्तो • निशाटा निशाचरा यत्रेति तमिति ॥ ७ ॥ अथ त्रिनिर्विशेषकम् । दूरात्मतीहारनतः स वार्ता पृच्छन्ननावेदितसम्प्रविष्टः । सगौरवं दत्तपथो निशाटैरैक्षिष्ट शैलाऽग्रामवेन्द्रशत्रुम् ॥ ८ ॥ दूरादित्यादि—स विभीषण: दूरादेव प्रतीहारेण नतः स्वामिनीव तत्र गौरवात् । वार्ता पृच्छन् कुशली महाराज इति विभीषणो द्वारि तिष्ठ- तीति राज्ञे अनावेदित एव संप्रतिष्ठो निशाटै: सगौरवं च सविनयं दत्त- पथो दत्तमार्गः । इन्द्रशत्रुं रावणमैदिष्ट दृष्टवान् । शैलांप्रमिव सिंहासनारूढस्या तस्योच्चत्वात् ॥ ८ ॥ कृशानुवर्ष्मण्यधिरूढमुच्चः सिंहासने संक्षयमेघभीमम् । निसर्गतीक्ष्णं नयनस्फुलिङ्गं युगान्तवद्वेरिव धूमराशिम् ॥ ९ ॥ अनाया स्टन्तीति तादृशैः राक्षसैरित्यर्थः a
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३७२
दिखावट