सर्गः ] प्रसन्नकाण्डम् । (३२९) -- विलोलतां चक्षुषि हस्तवेपथुं भ्रुवोभिङ्गं स्तनयुग्मवलिंगतम् । विभूषणानां क्वणितं च षट्पदो गुरुर्यथा नृत्यविध समादधे॥३७॥ 'विलोलतामित्यादि -- यथा गुरुर्नृत्याचार्यो नृत्यकर्मणि कस्याश्चिच्च- क्षुषि विलोलतां चलतां हस्तवेपथुं हस्तकम्पं भ्रुवोर्विभङ्गं नतोन्नतिं स्तन- युष्मवलिंगतं प्रचलितं भूषणानां कणितं शिञ्चितं जनयति, तद् दृष्ट्वा षट्पदो- ऽपि तत्समाद्धे विहितवान् ॥ ३७ ॥ अथाऽनुकूलान्कुलधर्मसम्पदो विधाय वशान्सुदिवः पुरीजनः । प्रबोधकाले शतमन्युविद्विषः प्रचक्रमे राजनिकेतनं प्रति ॥ ३८ ॥ अथेत्यादि -- अथानन्तरं पुरीजनो लङ्कानिवासिजनः प्रतिदिनमवाप्तकल्या- णत्वात् सुदिवः । 'सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रेणीपदाजपदप्रोष्ठपदाः । ५ । ४ । १२० ।' इति समासान्तनिपातनम् | यथास्वं कुलधर्मस्य पुरस्य या संपद्विभूति: तस्या अनुकूलान् वेशान्नेपथ्यानि विधाय कृत्वा शतमन्युविद्विषो रावणस्य प्रबोधकाले राजनिकेतनं प्रत्यभिलक्ष्य प्रचक्रमे गन्तुं प्रवृत्तः । 'प्रोपाभ्यां समर्थाभ्याम् | १ | ३ | ४२ ।। इति तङ् ॥ ३८ ॥ शैलेन्द्रशृङ्गेभ्य इंवं प्रवृत्ता वेगाज्जलौघाः पुरमन्दिरेभ्यः । आपूर्य रथ्याः सरितो जनौघा राजाऽङ्गनाऽम्भोषिम पूरयन्त ॥३९॥ शैलेन्द्रशृङ्गेभ्य इत्यादि -- यथा जलानां पूरा शैलेन्द्राङ्गेभ्यः प्रवर्तन्ते तद्व- पुरमन्दिरेभ्यः प्रवृत्ता जनौवाः रथ्याः क्षुद्राः सरित इवापूर्य राजाङ्गनमम्भो- धिभिवापूरयन्त पूरितवन्तः ॥ ३९ ॥ प्रबोधकालात् त्रिदशेन्द्रशत्रोः प्रागूर्ध्वशोषं परिशुष्यमाणाः । हीना महान्तश्च समत्वमीयुस्स्थैरवज्ञा परुषाऽक्षिदृष्टाः ॥ ४० ॥ - प्रबोधकाळादित्यादि - त्रिदशेन्द्रशत्रो: रावणस्य प्रबोधकालाप्राक पूर्वम् ऊर्ध्वशोषं परिशुष्यमाणा: राजाङ्गने ऊर्ध्वं गता एवं प्रबोधकाले शोषं नीयमाना इति अन्तर्भावितण्यर्थी द्रष्टव्यः । एवं च कृत्वा कर्मण्यात्मने- पदम् । अन्ये परिशोण्यमाणा इति णिचं पठन्ति । 'ऊर्ध्वे शुषिपूरोः | ३|४| ४४|' इति णमुल । हीना: महान्तश्च सेवका: समत्वं तुल्यत्वमीयुः । द्वारिकैः । द्वारि तिष्ठन्तीति ' सुपि स्थः |३|२४|| इति कः । 'खर
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६७
दिखावट