(३२८) भट्टिकाव्ये जयमङ्गलासमेते- [ एकादश:- उत्क्षिप्तम् । अथवा विलोचनेषुर्नेत्रशरः स्वत एव हन्तुं क्षमः ततः किमञ्जनन च विषेण दिग्धो विषलिप्त इति वद कथये ॥ ३२ ॥ दन्तच्छदे प्रज्वलिताऽग्निकल्पे ताम्बूलरागस्तृणभारतुल्यः । न्यस्तः किमित्यूचुरुपेतभावा गोष्ठीषु नारीस्तरुणीर्युवानः ॥ ३३ ॥ दत्तच्छद इत्यादि -- प्रज्वलिताग्निकल्पे स्वभावलोहितत्वात् दन्तच्छदे ओष्ठे ताम्बूलरागः किमिति न्यस्तः । तृणभारतुल्यः निष्प्रयोजनत्वात् । इत्येवमूचुर्युवानः प्रातरित्यर्थात् । उपेतभावाः जातानुरागा: गोष्ठीषु स्थिता ·जारीस्तरुणीरिति ॥ ३३ ॥ सुखावगाहानि युतानि लक्ष्म्या सुचीनि संतापहराण्युरूणि । प्रबुद्धनारीमुखपङ्कजानि प्रातः सरांसीव गृहाणि रेजुः ॥ ३४ ॥ सुखावगाहानीत्यादि --- प्रातः प्रभाते गृहाणि सरांसीव रेजुः । सुखाव- याहानि निरुपद्रवत्वात् सुखेनावगायन्ते । युतानि लक्ष्म्या देवतारूपया । शुचीनि पवित्राणि सन्तापहराणि धर्मादिक्लेशापहारीणि । उरूणि महान्ति 'अबुद्धानि विनिद्राणि नारीमुखान्येव पङ्कजानि यत्रेति ॥ ३४ ॥ संमृष्टसिक्ताऽचितचारुपुष्पैरामोदवद्रव्यंसुगन्धभागैः । लक्ष्मीर्विजिग्ये भवनैः सभृङ्गैः सेव्यस्य दवैरपि नन्दनस्य ॥ ३५ ॥ सम्मृष्टेत्यादि-- देवैः सेव्यम्यापि नन्दनस्य लक्ष्मोभवनैः प्रातर्विजिग्ये अविजिता । आदौ संभृष्टरजांसि अपनीतरजांसि पश्चात्सितानि । पूर्वापरकाल- -समास: । अर्चितानि पूजितानि प्रशस्तानि चारूणि शोभनानि पुष्पाणि येषु भवनेषु संमृष्टसिक्तानि च तानि अर्चित चारुपुष्पाणि चेति विशेषणसमासः । आमोदवन्ति यानि द्रव्याणि चन्दनादीनि तैः सुगन्धो भाग एकदेशो येषां तैः । गन्थस्येत्वे तदेकान्तग्रहणादित्वं न भवति । सभृङ्गैरामोदभृतत्वात् ॥ ३५ ॥ अक्ष्णोः पतन्नीलसरोजलोभाभृङ्गः करेणाऽल्पधिया निरस्तः | ददंश ताम्राऽम्बुरुहाऽभिसन्धिस्तृष्णाऽऽतुरः पाणितलेऽपि धृष्णुः ॥३६॥ अक्ष्णो रित्यादि-नीलसरोजलोभात् नीलकमलमेतदित्यक्ष्णोः पतन्निली- यमानो भृङ्गः अल्पधिया अल्पबुद्धया कयाचित् करेण निरस्तः क्षिप्तः सन् ताम्राम्बुरुहाभिसन्धिः रक्तपद्ममेतदित्यभिसन्धिरभिप्रायो यस्य भृङ्गस्य स छृष्णुः प्रगल्भः पाणितलेऽपि ददंश दृष्टवान् तृष्णातुरः । तामित्यर्थात् ॥ ३६ ॥ १ अन्रोपमारूपकयोः सङ्करः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६६
दिखावट