पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | (३२७) - स्मरातुर इत्यादि – दम्पत्योः प्रातरन्योन्यम्य मुखं पश्यतोः चक्षुषो रागों वर्ण्यते । स्मरातुरे कामातुरे चेतसि लब्धजन्मा लब्धादयः रागो रक्त- भावः नेत्रगवाक्षसंस्थः नेत्रयोर्गवाक्षयोरिव स्थितः कुतूहलात् कौतुकात् अन्यो- न्यस्य मुखानि पश्यन्निव । कीदृशं कामिन्या मुखं कामुकस्य मुखं वेति गुणापहार्यः तत्प्रतिपक्षेण शुकुगुणेन अपनेयः अत एव लोकोऽपि अचिर- स्थाय्यपि रराज ॥ २८ ॥ गतेऽतिभूमि प्रणये प्रयुक्तानबुद्धि पूर्व परिलुप्तसंज्ञः । आत्माऽनुभूतानपि नोपचारान्स्मरातुरः संस्मरति स्म लोकः ॥ २९ ॥ गत इत्यादि -- प्रणये विश्रम्भे अतिभूमिं गते प्रकृष्टावस्थां प्राप्ते सतिः ये अबुद्धिपूर्वम् अनिरूप्य स्वयं प्रयुक्ताः उपचाराः नखदन्तक्षतादयः तानात्मानुभूतानपि प्रातर्न स्मरति स्म कामिलोकः । इदमिदं मया प्रयुक्त मिति यतः सुरतावस्थायां स्मरातुरतया परिलुप्तसंज्ञो मूढ इति ॥ २९ ॥ वस्खैरनत्युल्बणरम्यव णैर्विलेपनैः सौरभलक्षणीयैः । आस्यैश्च लोकः परितोषकान्तरसूचयल्लब्धपदं रहस्यम् || ३० ॥ वस्त्रैरित्य/दि--वस्त्रैः विलेपनैः सौरभलक्षणीयैः सुरभितया परिच्छेद्यैः आस्यैश्च व्यपगताधररागैः परितोषकान्तैर्लिङ्गभूतैः रहसिं भवं सुरतं लब्धपर्द प्राप्तचिह्नं लोकः प्रकाशयति स्म ॥ ३० ॥ प्रातस्तरां चन्दनलिप्तगात्राः प्रच्छाद्य हस्तैरधरान् वदन्तः । शाम्यन्निमेषाः सुतरां युवानः प्रकाशयन्ति स्म निगूहनीयम् ॥ ३१ ॥ प्रातस्तरामित्यादि --- गुरुजनो नखदशनक्षतं मा द्राक्षीदिति युवान:- प्रातस्तरां प्रत्युषसिं चन्दन लिप्तगात्रा हस्तैरधरान् प्रच्छाद्य वदन्तोऽपि शाम्य नमेषा अनिंमिषितनेत्रा निगूहनीयं सुतरां प्रकाशयन्ति स्म नूनमेते सत्कृत येन एवमाचरन्तीति ॥ ३१ ॥ साम्नैव लोके विजितेऽपि वामे ! किमुद्यतं भ्रूधनुरप्रसह्यम् । हन्तुं क्षमो वा वद लोचनेषुर्दिग्धो विषेणेव किमञ्जनेन ॥ ३२ ॥ सान्नेत्यादि --- हे वामे प्रतिकूलवर्तिनि मधुरेणाविकृतेन साम्रा लोके अस्मद्विषे जितेऽपि वशीकृतेऽपि भ्रूधनुरप्रसह्यं प्रसोदुमशक्यम् उद्यतम्