सर्गः ] प्रसन्नकाण्डम् | अपहरदित्यादि-- ततस्तूत्तरकालं दिवसे ये विनोदाः चेतसः संस्थापका तान् सर्वतः सर्वान् सर्वेण वा प्रकारेण । आद्यादित्वात्तसिः । अपहरदिव अप- नयदिवान्धकारं दयितगतं प्रियागतं च । समाधिं चित्तैकाग्रताम् एकधा एक- प्रकारं दधत् धारयत् । घनरुचि बहुलच्छायं ववृधे वर्धते स्म । सह रघुनन्दन- मन्मथोदयेन तदानीं तस्य कामोद्योऽपि ववृधे । संहोक्तिरिति अन्धकार- मन्मथाश्रित योर्वर्धनक्रिययोस्तुल्यकालयोः 'ववृधे' इत्यनेन पदेन कथनात् । तथा चोक्तम्- 'तुल्यकालक्रिये यत्र वस्तुद्वयसमाश्रिते | वाक्येनैकेन कथ्येते सहोति. सा मता यथा ॥' इति ॥ ६६ ॥ परिवृत्तिः । अधिजलधि तमः क्षिपन् हिमांशुः परिददृशेऽथ दृशां कृताऽवकाशः | विदधदिव जगत् पुनः प्रलीनं भवात महान् हि पराऽर्थ एव सर्वः ॥ ६७ अधिजलधीत्यादि—अथ हिमांशुरन्धकारवर्धनानन्तरम् । अधिजलधि जलधेरुपरि । विभक्त्यर्थेऽव्ययीभावः । तमः क्षिपन् अपनयन् | परि- दहशे दृष्ट: । दृशां चक्षुषां कृतावकाश: दत्तावसरः । जगल्लोकं प्रलीनं तिरोभूतं पुनविदधदिव सृजन्निव | कस्मात्तेनैवं कृतमित्याह -- यस्माद्यो महान स सर्वः परार्थ एव परप्रयोजन एव भवति । परिवृत्तिरिति दृशां कृताव काश इन विशिष्टस्य वस्तुन आदानात् । तमः क्षिपन्नित्यनेनास्य वस्तुन अपोहात्, भवतीत्यादिना अर्थान्तरन्यासात् । तथा चोक्तम्- 'विशि- ष्टस्य यदादानंमन्यापोहेन वस्तुनः || अर्थान्तरन्यासवती परिवृत्तिर सौ यथा ॥ इति' ।। ६७ ।। .. संसन्देहः । अशनिरयमसौ कुतो निरभ्रे शितशरवर्षमसत्तदप्यशार्ङ्गम् । इति मदनवशो मुहुः शशाङ्के रघुतनयो न च निश्चिकाय चन्द्र ६८ अशनिरित्यादि---असौ यश्चन्द्रः किमयमशनिर्वञ्ञम् असौ कुतो निर नभसि कुतः, यतोऽसौ मेघादुत्पद्यत इति । उत निशितानां शराणां वर्षे तदप्य- शार्ङ्गमविद्यमानधनु: असदविद्यमानमित्ययं मदनवशः कामाभिभूतो मुहुः १ अत्र सहोक्तिरुत्प्रेक्षासङ्कीर्णा | 'परिवृत्तिर्विनिमयो योऽर्थाना स्यात् समासमैः । इति प्रकाशकारोक्ता तु न संगच्छते ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३५३
दिखावट