(२९८) भट्टिकाव्ये जयमङ्गलासमेते- [ दशमः- ● भिरध्यासितं तरुखण्डमण्डितं त्वरया वेगेन समवाप्य कपि सैन्यैर्मुदितै ः प्रयोज्यकर्तृभिः अमण्डयत् । 'मडि भूषायाम्' इति भौवादिकः । चौरादिके तु कपिसैन्यैः करणभूतैरिति योज्यम् । मुदितत्वे कारणमाह ---- स्मितदर्शित कार्य- निश्चयः ईषद्धसितप्रकटीकृतसीतोपलब्धिनिश्चयः । अन्तदीपकमिति अमण्ड- यदिति क्रियापदस्यान्ते निर्दिष्टत्वात् ॥ २४ ॥ मध्यदीपकम् | गरुडाऽनिलतिग्मरश्मयः पततां यद्यपि सम्मता जवे । अचिरेण कृताऽर्थमागतं तममन्यन्त तथाप्यतीव ते ॥ २५ ॥ गरुडेत्यादि--पततां गच्छतां मध्ये यद्यपि गरुडादयो जवे वेगविषये संमताः अभिमताः तथापि तं हनूमन्तम् अचिरेणैव कालेन कृतार्थं कृतकृत्य- मागतम् अतीव जविनं ते कपयः अमन्यन्त | मन्यतेर्लङि रूपम् । मध्यदोपक- मिति क्रियापदस्य मध्ये निर्दिष्टत्वत् ॥ २५ ॥ रूपकम् । रूपकमनेकविधं दर्शयन्नाह--- व्रणकन्दरलीन शस्त्रसर्पः पृथुवक्षःस्थलकर्कशोरु भित्तिः । च्युतशोणितबद्धधातुरागः शुशुभे वानरभूधरस्तदाऽसौ ॥ २६ ॥ व्रणेत्यादि --- असौ वानरो भूधर इव वानरभूधर: 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । २ । १।५६ ।। इति समासः । तदा तस्मिन्वानर- मध्यगमन काले कृतार्थ : शुशुभे शोभते स्म ।' व्रणानि शस्त्रकृतानि कन्दराणीव शस्त्राणि सर्पा इव शस्त्रसर्पा: व्रणकन्दरेषु लीनाः शस्त्रसर्पा यस्य । वक्षः- कर्कशोरुभित्तिरिव सा पृथुः विस्तीर्णा यस्य सः । शोणित बद्धधातुराग इव लिष्टगैरिकादिराग इव सः च्युतो यस्य | सर्वत्र 'उपमितं व्याघ्रादिभिः सामान्याप्रयोगे । २ । १ । ५६ ।। इति समासः । रूपकमिति सावयवेन भूधरेणोपमानेन सावयवस्य कपेरुपमेयस्य तत्स्वभावतयाध्यारो- पितत्वात् । यथोक्तम्- 'उपमानेन तुल्यत्वमुपमेयस्य रूप्यते । गुणानां समतो दृष्ट्वा रूपकं नाम तद्विदुः ॥' इति ॥ २६ ॥ स्थलं १ अन्र 'सुन्दरी' छन्दः, 'अयुजोर्यादि सौ जगौ युजोः सभरा गौ यदि सुन्दरी तदा' इति तल्लक्षणात् । २ अत्रारि सुन्दरी छन्दः | ३ अत्र औपच्छन्दसिकं छन्दः, ‘पर्यन्ते य तथैव शेषं त्वौपच्छन्दसिकं सुधीभिरुक्तम् ।' इति लक्षणात् । अ तथैवेत्यनेन ‘पडू विषमेऽष्टौ समे कलास्ताश्च समेस्युनों निरन्तराः । न समाऽत्र परा- श्रिताकलाः' इत्यस्य परामर्श:
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३६
दिखावट