पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रसन्नकाण्डम् | (२९९ ) अस्यैव भेदा अपरे चत्वारः । एतद्विशिष्टोपमायुक्तं रूपकम् | चलपिङ्गकेशरहिरण्यलताः स्फुटनेत्रपङ्किमणिसंहतयः । कलधौतसानव इवाऽथ गिरेः कपयो बभुः पवनजागमने ॥२७॥ चलेत्यादि - - अथ पवनजागमने हनूमदागमने कपयो गिरेस्तस्यैक कलधौतसानव इव सौवर्णैकदेशा इव बभुः शोभन्ते स्म । पिङ्गकेशराणि पिङ्गलसटाः तानि हिरण्यलता इव सुवर्णलता इव ताञ्चला येषां कपीनाम् नेत्रपङ्कयो मणिसंहतय इव ताः स्फुटा उज्ज्वला येषामिति । एतदपि रूपकमेव । किंतु कलधौतत्वेन सानूनां विशिष्टत्वाद्विशिष्टोपमायुक्तं कमलकं नाम || २७ ।। एतच्छेषार्थान्ववसितमवतंसकम् । कपितोयनिधीत् प्लवङ्गमेन्दुर्मदयित्वा मधुरेण दर्शनेन । वचनाऽमृतदीधिती वितन्व नकृतानन्दपरीत नेत्रवारीन् ॥ २८ ॥ कपीत्यादि - - प्लवङ्गम इन्दुरिव प्लवङ्गमेन्दुः । कपयस्तोयनिधय इव तान् कपितोयनिधीन् । मधुरेण सुखेन दर्शनेन मदयित्वा हर्षयित्वा । 'मदी हर्षग्ले पनयोः' इति घटादित्वान्मित्त्वे स्वत्वम् । वचनानि अमृतमयदी- घितय इव ता वचनामृतदीधितीर्वितन्वन् विस्तारयन् | लोकवृत्तान्तसंबोधक- माह्लादकं वचनमुदाहरन्नित्यर्थः । आनन्देन हर्षेण परीत संजातं नेत्रवारि येषां तानेवंविधानकृत कृतवान् । एतद्रूपकं शेषार्थान्ववसितम् । रूपितादन्यो योऽर्थः 'आनन्दपरीतनेत्रवारीन्' इति स शेषः । तेनान्ववसितं युक्तमवतंसक नाम विसदृशस्यार्थस्य लपितत्वात् । तदेवान्यैः खण्डरूपकमित्युच्यते ॥२८॥ अर्धरूपकम् | परिखेदितविन्ध्यवीरुधः परिपीताऽमलनिर्झराऽम्भसः । दुधुवुर्मधुकाननं ततः कपिनागा मुदिताऽङ्गदाऽऽज्ञया ॥ २९ ॥ परिखेदितेत्यादि -- तत उत्तरकालं कपयो नागा इव हस्तिन इव कपि -- नागा: मुदितस्याङ्गदस्याज्ञया मधुकाननं सुग्रीवस्य क्रीडोद्यानं दुधुवुः कम्पितवन्तः । मधून्यपभुज्य संभ्रममकुर्वन्नित्यर्थः । परिखेदिताः परिमृदिता:. १ अत्र 'प्रमिताक्षरा' छन्दः | २ अन्र 'औपच्छन्दसिकं' छन्दः ।