( २४८ ) भट्टिकाव्ये जयमङ्गलासमेते- [ अष्टमः - कृत्वेत्यादि---यो दूतो यथादिष्टं कर्म कार्य कृत्वा । अत्र कृत्वेत्यव्ययप्रयोगे षष्टीप्रतिषेधः । तत उत्तरकालं पूर्वकर्माविरोधि पूर्वकृतस्य कार्यस्य यदविरोधि तदद्भ्यधिकं करोति तमुत्तमं दूतमाहुर्विदुर्नीतिविद् इति शेषः । मया च यथादिष्टं सीतान्वेषणं कृतमिति भावः ॥ १२७ ।। तदेव च दर्शयन्नाह — वैदेही दृष्टवान्कर्म कृत्वाऽन्यैरपि दुष्करम् । यशो यास्याम्युपादाता वार्तामाख्यायकः प्रभोः ॥ १२८ ॥ वैदेहीमित्यादि—अहमद्य तावद्वैदेहीं दृष्टवान् | निष्ठाप्रयोगे पष्ठीप्रतिषेधः । अन्यदपि कार्यमतिदुष्करं कृत्वा । खलुप्रयोगे षष्ठीप्रतिषेधः । ततो यश उपादाता । आत्मसात्कर्ता । इदमतिदुष्करं तेन कृतमिति । तृन्नन्तस्य प्रयोगेऽपि तत्प्रतिषेधः । वार्तामाख्यायकः प्रभोर्वार्तामाख्यातास्मीति भविष्यदधिकारात् 'तुमुण्ण्वुलौ क्रियायां क्रियार्थायाम् । ३ । ३ । १० ।। इति ण्वुल् | 'अकेनोर्भविष्यदाधमर्ण्य - योः | २|३|७०।' इति षष्ठीप्रतिषेधः ॥ १२८ ॥ राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम् । इति संचिन्त्य सदृशं नन्दनस्याभनकपिः ॥ १२९ ॥ राक्षसेत्यादि- - इदं वनम शोकवनिकाख्यं राक्षसेन्द्रस्य संरक्ष्यं रक्षार्हम् । 'अर्हे कृत्यतृचश्च ||३|३|१६९|' इत्यधिकृत्य 'ऋहलायेत् |३|१||१२४|' इति ण्यत् । तन्मया लव्य लवनीयम् । 'कृत्यानां कर्तरिवा ।२ । ३।७१|| इति षष्ठीतृतीये कर्तरि भवतः । इत्येवं संचिन्त्य कपिर्नन्दनस्य वनस्य सदृशं तुल्यम् | 'तुल्यायें- रतुलोपमाभ्यां तृतीयान्यतरस्याम् । २ । ३ । ७२ ।' इति पक्षे षष्ठी | अमनकू भग्नवान् । भञ्जेर्लङि ‘श्नान्नलोपः ।६ । ४ । २३ ।। इति नलोपे हलङयादिलोपे जश्व चर्वे च रूपम् ॥ १२९ ।। । राघवाभ्यां शिवं दूतस्तयोरहमिति ब्रुवन् । हितो भनज्मि रामस्य कः किं ब्रूतेऽत्र राक्षसः ॥ १३० ॥ राघवाभ्यामित्यादि - राघवाभ्यां रामलक्ष्मणाभ्यां शिवं भद्रमस्तु । तयाहनूमान् दूतो हितो रामस्य भनज्मीदं वनम् । एवं च क्रियमाणे को भवतां मध्ये राक्षसः किं ब्रूते इत्येवं ब्रुवन् । बभञ्ज पवनात्मजो रिपुवन- मिति वक्ष्यमाणेन संबन्ध: । राघवाभ्यां शिवं हितो रामस्येति चतुर्थी • चाशिष्यायुष्यमद्रभद्रकुशल सुखार्थहितैः २|३|६३|' इति पष्ठीचतुर्थ्यो ||१३० ॥ इति विभक्त्यधिकारः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२८६
दिखावट