सर्गः ] अधिकारकाण्डम् । (२०७) शब्दं कुर्वाणाः। 'निष्ठा शीङ् स्विदिभिदिक्ष्त्रिदिधृषः।१।२।१९।' इति कित्त्वप्रतिषेधः। तोयधिं प्रत्युदैक्षन्त दृष्टवन्तः । लङि रूपम् । कीदृशं मणिरत्नाधिशयितम् । 'क्तो- ऽधिकरणे च ।३।४।७६।' इति क्तः। पूर्ववत्कित्त्वप्रतिषेधः । मणिर्यद्रत्नमिति स्त्रीर- नादावपि रत्नशब्दस्य दृष्टत्वात् एकपद्व्यभिचारे विशेषणविशेष्यभावः । तस्याधिशयितमवस्थानमित्यर्थः ॥ १०३ ||F अमर्षितमिव घ्नन्तं तटाद्रीन् सलिलोमिंभिः । श्रिया समग्रं द्युतितं मदेनेव मलोठितम् ॥ १०४ ॥ अमर्षित इत्यादि-सलिलोर्मिभिः कल्लोलैः । तटाद्रीन् तटस्थान् पर्वतान् घ्नन्तं प्रत्युदैक्षन्त । अमर्पितमिव ' मृषस्तितिक्षायाम् | १|२|२०|' इति कित्त्व- प्रतिषेधः । पश्चात् नञसमासः । श्रिया हेतुभूतया समग्रं संपूर्ण । ति मिति कर्तरि निष्ठा । यदि वा श्रिया कर्तृभूतया द्युतितं शोभितम् । यत्रेत्य- ध्याहत्य तमैक्षन्तेति योज्यम् । एवं च कृत्वा उदुपधाद्भावादिकमणोरन्यतर- स्याम् ।१।२।२१।' इति भावे निष्ठायां विकल्पेन कित्त्वप्रतिषेधात् कित्त्वमुदाह- तम् । मदेनेव मत्ततयेव । श्रिया हेतुभूतया प्रलोठितं घूर्णितुमारब्धम् । 'आदि- कर्माणि क्तः कर्त्तरि च | ३|४|| ७१ | निष्ठायामकित्त्वमुदाहृतम् ।। १०४ ॥ पूतं शीतैर्नभ स्वद्भिग्रन्थित्वेव स्थितं रुचः | गुम्फित्वेव निरस्यन्तं तरङ्गान् सर्वतो मुहुः ॥ १०५ ॥ पूतमित्यादि--नभस्वद्भिर्वायुभिः शीतैः पूतं पवित्रीकृतम् । ‘पूङञ्च।७।२।५१।' इति विकल्पेनेट् । अत एव पक्षे पूनः क्त्वानिष्ठयोः कित्त्वप्रतिषेधोऽत्र न भवति । तत्र सेडित्यनुवर्तते । रुचो दीप्तीग्रन्थित्वेव संदर्येव स्थितम् । 'नोपधात्थ- फान्ताद्वा |१|२|२३|' इति कित्त्वप्रतिषेधपक्षे रूपम् । सर्वतस्तरङ्गान् गुम्फित्वेव निरस्यन्तं क्षिपन्तम् । नोपंधादिति विकल्पेन कित्त्वप्रतिषेधः । यत्रेत्यध्या- हृत्य तमैक्षन्तेति योज्यम् ॥ १०५ ॥ वञ्चित्वाप्यम्बरं दूरं स्वस्मिस्तिष्ठन्तमात्मनि । तृषित्वेवानिशं स्वादु पिबन्तं सरितां पयः ॥ १०६ ॥ वञ्चित्वेत्यादि–स्थित्यनतिक्रमादम्बरं दूरं वञ्चित्वातिक्रम्य | 'वचिञ्च्य तश्च | १|२|२४|' इति कित्त्वप्रतिषेधः स्वस्मिन्नात्मनि स्वरूपे तिष्ठन्तम् । अत्र 'नश्छव्यप्रशान् | ८|३|७|' इति नकारस्य रुत्वम् । पूर्वस्य त्वनुनासिका- देशः । तृषित्वेव तृषित इव भूत्वा । 'कृषिमृषिकृशे: काश्यपस्य
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४५
दिखावट