पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( २०६) भट्टिकाव्ये जयमङ्गलासमेते- [ सप्तमः - समगध्वमित्यादि——इदमहमाशंसे यदुत शत्रोः रावणस्य पुरः अग्रतः समगध्वं संगता भवत । 'आशंसायां भूतवच्च |३|३|१३२|' इति लुङ् | 'समो गम्युच्छिभ्याम् ||२||३|' इति त ।' वा गमः ||१|३|२९|| ' इत सिचः कित्त्वे ‘अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक- लोपो झाले कति । ६ । ४ 1' इत्यनुनासिकलोपः । ३७ । 1 'इस्वादङ्गात् |८|२|२७|' इति सिचो लोपः । मोदयध्वं रघूत्तम हर्षयत । तत्कार्यकरणात् । मा च भयमुपायध्वं सूचयत भयं मा कार्टेत्यर्थः। ‘आङो यमहनः |१|३|२८|' इति तङ् । 'यमो गन्धने |१|२|१५|' इति तङ् | यमो गन्धन इति सिच: कित्त्वे अनुनासिकलोपः । गन्धनं सूचनम् । अन्यथा युष्मासु गन्धितनयेषु नियतमसौ दशाननः सीतामुपायंस्त स्वीकृतवान् स्यात् । तस्यै दुर्वृत्तत्वात् । 'आशंसायां भतवच्च |३|३||३२|' इत्यनिष्टाशं- सायां लुङ् । ‘उपाद्यमः स्वकरणे । १ ।३ । ५६ ।' इति तङ । स्वकरणं चात्र विवाहनमुक्तम् । 'विभाषोपयमने | १ | २|१६|' इति अकित्त्वपक्षे रूपम् ॥ १०१ ॥ । ततः प्रास्थिषताऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम् । सर्वे किलकिलायन्तो धैर्य चाऽऽधिपताऽधिकम् ॥ १०२ ॥ तत इत्यादि --वतः तदनन्तरम् : सम्पातिवचनानन्तरं सर्वे वानरा महेन्द्रं पर्वत प्रास्थित प्रस्थितवन्तः । धैर्य चाधिकमाधिषत 'आहितवन्त आत्मनि । तिष्ठतेधातेश्च ● स्थाध्वोरिच्च |१|२|१७|' इति कित्त्वमित्त्वं च । तिष्ठतेः 'समवप्रविभ्यः स्थः |१|३|२२|| इति तङ् | किलकिलायन्तः किलकिलाव्वनिं कुर्वाणा: । 'अव्यक्तानुकरण- स्यात इतौ ।६।१।९८।' इतिडाच तदन्तात् 'लोहितादिडाउभ्यः क्यप्।३।१।१३। ‘वा क्यषः |१|३|९०।' इति परस्मैपदम् ।। १०२ ।। अथ पञ्चभिः कुलकम् । निकुञ्जे तस्य वर्तित्वा रम्ये प्रवेदिताः परम् । मणिरत्नाधिशयितं प्रत्युदैक्षन्त तोयधिम् ॥ १०३ ॥ निकुञ्ज इत्यादि --तस्य पर्वतस्य निकुञ्जे लतादिपिहितस्थाने वर्तित्वा स्थित्वा । ‘न क्त्वा सेट् | १|२|१८|' इति कित्त्वप्रतिषेधः । परं प्रक्ष्वेदिता उच्चैरव्यक्त- १ तस्य रावणस्य 1 २ 'निकुञ्जकुञ्ज वा कीबे लताssदिपिहितोदरे ।” इत्यमरोके: