पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः 1 अधिकारकाण्डम् । (२०५) विजिघृक्षवः विदित्वेत्यादि--आत्मीयां स्वसम्बन्धिनीं शक्तिं सामर्थ्य विदित्वा । पूर्ववत्कित्त्वम् । रावणं विग्रहीतुमिच्छवः । सुषुप्सवः शयितुमिच्छवो मां स्म भूत । न प्रमत्ता भवतेत्यर्थः । रावणस्य बलीयस्त्वा- दिदमुक्तं मया वो युष्माकं पिपृच्छिषूणां प्रष्टुमिच्छूनाम् । अत्र 'रुदविद- मुषग्रहिस्वपिप्रच्छः संश्च |१|२|८|| इति सनः कित्त्वे सम्प्रसारणम् । प्रच्छेः ‘किरश्च पञ्चभ्यः |७|२|७५ | इतीडागमः ॥ ९८ ॥ नाऽविविदिषुमभ्येति सम्पद्रुरुदिषु नरम् | किं मुमुषिषुवद्यात द्विषो नाऽपचिकीर्षया ॥ ९९ ॥ नेत्यादि--—-वेदितुं ज्ञातुमिच्छुर्यो न भवति तं नरमविविदिषु रुरुदिषु रोदितुमेषणस्वभावं सम्पद्विभूतिर्नाभ्येति नागच्छतीति वो मयोक्तमिति योज्यम् । किं न यात न गच्छत । मुमुषिषुवत् चौरवदित्यर्थः । पूर्ववत्कित्त्वम् । द्विषः शत्रोः । 'द्विद्धिपक्षाहितामित्रदस्युशात्रवशत्रवः |' इत्यमरः । अप- चिकीर्षया अपकर्तुमिच्छया । 'इको झलू |१|२|९| इति कित्त्वे गुणो न भवतीति 'अज्झनगमां सनि |३|४|१६|| इति दीर्घः । 'ॠत इद्धातोः १७।४।१००। ।। ९९ ॥ बुभुत्सवो द्रुतं सीतां भुत्सीध्वं प्रब्रवीमि वः । · मा च भुद्धं मृषोक्तं नः कृषीट्वं स्वामिने हितम् ॥ १०० ॥ बुभुत्सव इत्यादि-बुभुत्सवो ज्ञातुमिच्छवः यदि सीताम् । बुधैः सन्न- न्तात् 'हलन्ताच्च |१|२|१०|' इति कित्त्वम् । 'एकाचो बशो भषूझषन्तस्य स्वोः |८|२||३७|' इति भष्भावः । तदा द्रुतं तां भुत्सीध्वं जानीतेति वो युष्मान् ब्रवीमि | 'लिङ् सिचावात्मनेपदेषु |१|२|११|' इति कित्त्वम् । मृषोक्तं मिथ्योक्तं नोऽस्माकं मा च भुद्ध्वं न जानीत, अपि तु सत्यम् । 'झलो झलि |८|२|२६|' इति सिचो लोपः । 'झलां जश झशि |८|४|५३|' इति जस्त्वम् । कित्त्वं पूर्ववत् । अतो यूयं स्वामिने रामाय हितं कृषीढं कुरुत । ‘उश्च |१||२|१२|' इति कित्त्वम् । 'इण: पीध्वंलुइलिट घोऽङ्गात् ||३|७८।१ इति मूर्धन्यः ॥ १०० ॥ समगध्वं पुरः शत्रोमदयध्वं रघूत्तमम् । नोपायध्वं भयं सीतां नोपायंस्त दशाननः ॥ १०१ ॥ १ बुधे: 'बुध अवगमने' इत्यस्माद्धातोः ।