सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सर्गः ] प्रकीर्णकाण्डम् । ( १३१) रुदतोऽशिश्वयच्चक्षुराममं हेतोस्तवाश्वयीत् । म्रियेऽहं मां निरास्थश्चेन्मा न वोचश्चिकीर्षितम् ॥ १९ ॥ रुदत इत्यादि-तवार्थे त्वां पश्यामीति रुदतो मम चक्षुरशिश्वियत् उच्छ्र- नम् । अस्यं मुखं चाश्वर्यात् । 'विभाषा धेश्च्योः । ३ । १ । ४९ | इति चसिचौ । चङीय | 'हृयन्तक्षणश्वसजागृणिश्व्येदिताम् । ७ । २ । ५ ।। इति न वृद्धिः । ‘इट`इटि | ८ | २ | २८ ।। इति सिचो लोपः । गुणायादेशौ । मां निरास्थद्यदि मन दर्शनं निरस्तवती त्वं तदा म्रियेऽहम् ।" म्रियतेलुङ्- लिङोश्च । १ ।३ । ६१ ।' इति चकाराच्छित्यात्मनेपदम् ' निङ्शयग्लि । ७ । ४ । २८ ।' इति रिङ् । अतो यत्त्वया चिकीर्षितं कर्तुमिष्टं तन्मा न वोचः मा न भाषिष्ठाः अपि तु ब्रूहि । 'अस्यतिवक्तिख्यातिभ्योऽङ् । ३ । १ । ५३ ।' इत्यङ् । 'वच उम् । ७ । ४ ।२०' ।। १९ ।। लक्ष्मणाऽऽचक्ष्व यद्याख्यत् सा किञ्चित् कोपकारणम् । दोषे प्रतितमावानमज्ञाते क्रियतां कथम् ॥ २० ॥ लक्ष्मणत्यादि-- हे लक्ष्मण यदि सा किञ्चित्कोपकारणमाख्यदुक्तवती । इदं तेनाप्रियमाचरितम्ं । पूर्ववदङ् | तदाचक्ष्व कथय । अज्ञाते दोषे अनिर्धा- रिते प्रतिसमाधानं कथं क्रियताम् । अनुष्टीयतां नैवेति भावः । कर्मणि लोट् । 'रिङ्शयलिङक्षु |७|४|२८| इति रिङ् ॥ २० ॥ इह सा व्यलिपइन्वैः स्नान्तीहाऽभ्याषेचजलैः । इहाऽहं द्रष्टुमाहं तां स्मरन्नेवं सुमोह सः ॥ २१ ॥ इहेत्यादि -- इह प्रदेशे सा सीता गन्धैलिपत् समालितवती । मामात्मानयत् । इह स्नान्ती क्रीडा पूर्वकमभ्यषिचत् । हस्तयन्त्रमुक्तस- लिलेन माभभिमुखं सिक्तवतीत्यर्थ: । 'प्राक्सिताव्यवायेऽपि |८| ३ | ६३ || इति पत्वम् । इह द्रष्टुं तामाह्वम् आहूतवान् । 'लिपि सिचिह्नश्च | ३ | १ |५३ । ' इति चलेरङ् । एवं स्मरन् मुमोह मोह गतवान् ॥ २१ ॥ तस्यालिपत शोकाऽग्निः स्वान्तं काष्ठमिव ज्वलन् । अलिप्तेवानिलः शीतो वने तं न वजिह्रदत् ॥ २२ ॥ १ 'वास्ये वदने तुण्डे' इत्यमरः | २ मां राममिति भावः | ३ सीतामित्यर्थः ।