पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

( १३२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ षष्ठः- वस्येत्यादि- - तस्य रामस्य स्वान्तं मनः । 'क्षुब्धस्वान्तध्वान्तलग्न- क्लिष्टविरिब्धफाण्टवाढानि मन्थमनस्तमः सक्ता विस्पष्टस्वरानायासभृशेषु ।७ । २ । १८ ।' इति निपातितम् । शोकाग्निः शोको ऽग्निरिवॅ । अलिपत दीपितवान् । परस्मैपदेषु 'लिपि सिचिह्नश्च | ३ | १ | ५३ ।' इति निये प्राप्ते 'आत्मनेपदेष्वन्यतरस्याम् । ३ । १ । ५४ ।' इति विकल्पेनाङ् । 'स्वरितत्रितः कर्त्रभिप्राये क्रियाफले । १ । ३ । ७२ ।। इति क्रिया- फलविवक्षायामात्मनेपदम् । काष्ठामेव स्वान्तं ज्वलन् अभिवर्धमानः । अनेलो वायुः शीतोऽपि सन् वने तं राममलिप्तेव दीपितवानिव | अङमा वपक्षे 'झलो झलि | ८ | २ | २६ ।। इति सिचो लोपः । नतु नैवाजि - हदत् हादितवान् । शोकानेरुद्धद्धत्वात् । इादेर्ण्यन्तात् । “णिश्रिद्भ्यः कर्त्तरि चङ् । ३ । १ । ४८ ।' इति च ।। २२ ।। स्नानभ्यषिचताम्भोऽसौ रुदन्दयितया विना | तथाभ्यपिक्त वारीणि पितृभ्यः शोकमूर्च्छितः ॥ २३ ॥ स्नानित्यादि -- असौ रामो दयितया सीतया विना । शोकमूर्छितः शोकेन मोहं नीतः । स्नातुमारब्धः । मूर्छेर्हेतुमण्ण्यन्तस्य रूपम् । 'ष्णा शौचे' ऋतृप्रत्ययः । रुद्न् अश्रु विमुञ्चन् | अम्भः सलिलं अभ्यषिचत क्षिप्तवान् । शिरस्यञ्जलिना । तथा स्नातः पितृभ्यो वारीणि अभ्यषिक्त दत्तवान् । सिचेः पूर्ववद्विभाषाऽङ् | सिचिरत्रोत्सर्गे वर्तते । ततश्चार्थान्तरवृत्तित्वा- जलस्य कर्मत्वम् । अभ्युक्षणे तु करणत्वं यथा जलेन सिञ्चतीति ॥ २३ ॥ तथातोंऽपि क्रियां धर्म्यं स काले नामुचत्वचित् । महतां हि क्रिया नित्या छिद्रे नैवावसीदति ॥ २४ ॥ तथेत्यादि-स रामस्तेन प्रकारेणार्तोऽपि कचिदपि धर्म्या क्रियां काले नामुचत् न त्यक्तवान् । यतो महतां सत्यपि छिद्रे व्यसने नित्या क्रिया नावसीदति नापयाति । आङ्पूर्वादर्तेर्ऋणोतेर्वा निष्ठायाम् ऋति धातौ वृद्धिः । सुचेः लदनुबन्धत्वादुङ् । 'कृञः श च । ३ । ३ । १०० ।। रिडियौँ ||२४|| आह्वास्त स मुहुः शूरान् मुहुराहत राक्षसान् । एत सीताद्रुहः संख्ये, प्रत्यथर्यंत राघवम् ॥ २५ ॥ १ 'स्वान्तं हृन्मानसं मनः |' इत्यमरः | २ शोक एवानिरिति वा । ३ सन्ध्यो दिरूपामित्यर्थः । ४ अत्रार्थान्तरन्यासः सामान्येन विशेषसमर्थनात्मा |