( १२२ ) भट्टिकाव्ये जयमङ्गलासमे ते- [ पञ्चम:- सन्त्रासयामित्यादि-अथैतस्मिन् युद्धप्रस्तावे स पक्षी सीतां विंशति-- बाहुना रावणेन त्याजयांचकार त्याजितवान् । गत्यादिषु त्यजेरसग्रहात् तृती- यैव भवति । कस्मात्त्याजितवानित्याह । सन्त्रासया व कारारिं यम्मादरिंशत्रु रावणं त्रासितवान् । अकर्मकत्वात् त्रासेर्ण्यन्तावस्थायामरे: कर्मत्त्रम् | आभ्यां हेतुमण्ण्यन्ताभ्याम् ' कास्प्रत्ययादामन्त्रणे लिटेि | ३ | १ | ३५ । १ इत्याम् । आमोऽमित्वमदन्तत्वात् । 'आमः | २ | ४ |८१।' इति लुक् । 'अयामन्ताल्वा- य्येतिन्वष्णुषु ६ । ४ । ५५ ।' इत्ययादेशः । आमकारान्तस्य कृत्संज्ञायां प्रातिप- कत्वे प्रथमैकवचनम् । तस्य 'अव्ययादाप्सुपः । २ । ४ । ८२ ।' इति लुकू । स्वरादिषु 'अम् आम्' इति पठितत्वादद्व्ययत्वम् । आमन्वस्त्यानभिव्यक्त पदार्थ- त्वात् ‘कृञ्चानुप्रयुज्यते लिटि ३१११४०।' इति लिट्परस्य कृञोऽनुप्रयोगः । कर्त्र- भिप्रायाभावाभावेऽनुप्रयोगे तङ् न भवति । सुरांश्च पश्यतो युद्धं जटा- युः पिप्राय प्रीणितवान् । शत्रुत्रासनं सीतात्याजनं च देवानां प्रीतेः कारणम् ।। १०४ ।। असीतो रावणः कासांचक्रे शबैर्निराकुलः । भूयस्तं बेभिदाञ्चके नखतुण्डाऽऽयुधः खगः ॥ १०५ ॥ असीत इत्यादि-असीतः परित्यक्तसोतो रात्रण: आकाशस्थ: कासा- क्रे कुत्सितमभिहितवान् | एह्येहीति विहगाविरति । 'कासृ शब्द- कुत्सायाम्' इत्यनुदात्तेत् । 'कास् प्रत्ययादाममन्त्रणे लिटि । ३ । १ । ३५ । १ इत्याम् । शस्त्रैः इत्यम्भूते तृतया | निराकुलः पूर्व बाहुभिः सीताप्र- ग्रहणे व्याकुलत्वात् । भूयः पुनरपि । खगे: पक्षी । डप्रकरणे 'अन्ये प्वपि दृश्यते । ३ । २ । १०१ ।। इति वचनात् गमेर्ड: । तं निशाचरं रावणं राक्षसमित्यर्थः । बेभिदा चक्रे । अत्यर्थ भिन्नवान् । बेभिद्यते न्तादाम् । नखतुण्डान्येवायुधानि यस्य ॥ १५ ॥ हन्तुं कोषबशादीहाञ्चक्राते तो परस्परम् । न वा पलायाञ्चके विर्दया न राक्षसः ॥ १०६ ॥ हन्तुमित्यादि-तौ पक्षिरावणौ जटायू रावणश्चेत्यर्थः । क्रोधवशात् क्रोधाधीनतया उद्रिक्तक्रोधतयेत्यर्थः परस्परमन्योन्यं हन्तुमीहा चक्राते चेष्टां कृतवन्तौ । 'इजाहेश्च गुरुमतोऽनृच्छः |३|१|३६|| इत्याम् । विपक्षी | १ 'शराऽर्कविहगाः खगाः ।' इत्यमरः । २ पतत्रिपत्रितगपतप्तपत्ररथा. Sण्डजाः । नयौकोवाजिविकिरविविष्किरपतत्रयः ॥' इत्यमरः ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१६०
दिखावट