( १०२ ) भट्टिकाव्ये जयमङ्गलासमेते- [ पञ्चम:- कलहाभ्रकण्वमेघेभ्यः करणे |३|१|१७|' इति क्यङ् | भयदं निशाचरम् ॥ शब्दविशेषणं वा ॥ ५२ ॥ श्रुत्वा विस्फूर्जथुप्रख्यं निनादं परिदेविनी । मत्वा कष्टाश्रतं रामं सौमित्रि गन्तुमैजिहत् ॥ ५३ ॥ - श्रुत्वेत्यादि — विस्फूर्जथुप्रख्यं वज्रनिघषतुल्यम् । 'टुओस्फूर्जा वज्र- निर्घोषे' । 'द्वितोऽथुच् |३|३|८९|| निनादं शब्दम् । 'नौ गदनदपठम्वनः |३|३|६४|| इति विकल्पनात् पक्षे घन् । श्रुत्वा मैथिली कष्टश्रितं कृच्छ्रप्राप्तं रामम् । 'द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः | २|१|२४| इति समासः।मत्वा बुद्ध्वा । कृच्छ्रप्राप्तेन रामेण मृतमिति परिदेविनी परिदेवन- शीला शङ्कमाना । 'संपृचानुरुधा-|३|२|१४२|' इत्यादिना धिनुण् । सौमित्रिं गन्तुमैजिहत् । ईहां कारितवती । ईहेण्यंन्तात् लुङि द्विवचनेऽचीति स्थानिवद्भावादजादेद्वितीयस्येति हिशब्दस्य द्विर्वचनम् | अभ्यासकार्य च ||५३॥ एष प्रावृषिजाऽम्भोदनादी भ्राता विरौति ते । ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम् ॥ ५४ ॥ - एष इत्यादि - एष ते भ्राता रौति । 'उतो वृद्धिलकि हलि |७|३|८९।१ इत्यौकारः। प्रावृषि जातः प्रावृषिजः । सप्तम्यां जनेर्डः ॥ ३।२।९७।' प्रावृशरत्कालदि वां जे | ६ | ३|१५|' इति सप्तम्या अलुक् । स चाम्भोदश्चेति 'विशेषणं विशेष्येण बहुलम् २१११५७' इति समासः । तद्वन्नदतीति ' कर्तर्युपमाने । ३ । २ ॥७९॥ १ इति णिनिः । तस्मात् सौमित्रे ज्ञातयं ज्ञातिभावं तत्कर्म वा कुरु । 'कपि- ज्ञात्योर्दक |५|१|१२७|' तेन भयात्रायस्व राघवम् ॥ ५४ ॥ ● रामसंघुषितं नैतन्मृगस्यैव विवाञ्चषोः । रामस्वनि तसङ्काश: स्वान, इत्यवदत् स ताम् ॥ ५५ ॥ -- रामेत्यादि - रामसंघुषितं रामशादेतमतेन्न भवति । 'घुषिरविशब्दार्थः। ' तस्य निष्ठायां ' रुष्यमत्वरसङ्घषास्वनाम् |७|२|२८|| इति विकल्पेनेट् । मृगस्य विवञ्चिषोः छलयितुमिच्छोः । 'वञ्चु गतौ ।" भौवादिकः । तस्या नेकार्थत्वात् । प्रलम्भन इति चौरादिकस्याण्यन्तस्य वा प्रयोगः । येषामनित्यण्य न्ताश्चुरादय इति दर्शनं तेषां मतेनात्रापि सिध्यति । एष स्वानो ध्वानः 'स्वहस्रोर्वा |३|३|६२|' इति पक्षे घन् । कहिशः रामस्वानितसङ्काशः । राम- शब्दानुकारीति । तां सीताम् एवमवदत् उक्तवान् । स लक्ष्मणः ॥ ५५ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१४०
दिखावट