(९८) भट्टिकाव्ये जयमङ्गलासमेत- अघानि ताडका तेन लज्जाभयविभूषणा । स्त्रीजने यदि तच्छ्राध्यं धिग् लोकं क्षुद्रमानसम् ॥ ४० ॥ घानीत्यादि - तेन रामेण ताडका अघानि व्यापादिता । इन्तेः कर्मणि- लुङ् । लज्जा च भयं च विभूषणं यस्याः । स्त्रीत्वान्न शौर्यम् । एवंविधाया अनेन रामेण यदि गर्ह्यमपि हननं स्त्रीजने लाव्यं श्लाघनीयम् । 'कृत्यानां कर्तरि वा ।२।३।७१।' इति तृतीया । तं धिक् लोकं क्षुद्रमानसं हीनमानसम् ॥ ४० ॥ यद् गहनोर्दर्नमसौ शेरैभर्रुिमभाययत् । कुब्रह्मयज्ञके रामो भवन्तं पौरुषं न तत् ॥ ४१ ॥ यद्नेह इत्यादि--असौ रामो यद्भवन्तं भीरुं शरैरभाययत् भायितवान् | पुगात्मनेपदे न भवतः भयहेतोरभावात् । अत्र हि शरेभ्यो भयम; नतु रामात् । तत् किम् । पौरुषकारः किमसौ । युवादित्वादण | गेहेनर्दिनं गेह एव नर्दिन- म्। ‘पात्रेसमिताद्यश्च |२|१||४|| इति समासः कुब्रह्मयज्ञके | कुत्सिता ब्रह्माणः कुब्रह्माः। ‘कुगतिप्रादयः | २|२|१८|' इति समासः । 'कुमहद्भयामन्यतरा स्याम् | ५|४|१०५।' इति समासान्तष्टच् । तेषां कुत्सितो यज्ञः । तस्मिन् सात कुस्सायां कन् । तेन शूरम्मन्योऽहं रणात्तन निरस्तः इत्यपुष्कलमुक्तम् ॥४१॥ चिरकालोषितं जीर्ण कीटनिष्कुषितं धनुः । किं चित्रं यदि रामेण भग्नं क्षत्रियकाऽन्तिके ॥ ४२ ॥ [ पञ्चमः - - —— चिरेत्यादि — यदि रामेण क्षत्रियकान्तिके | कुत्सितक्षत्रियसमीपे । भग्नं धनुः किं तच्चित्रमाश्चर्यम् । क्षत्रिया जनकादयः तस्य कुत्सायां कन्ं । क्षत्रियक- स्यान्तिके । दूरान्तिकार्ययोगे षष्ठीसमासं विधाय पश्चात् 'सप्तम्यधिकरणे च|२|३|३६ |' इति चकाराद्दूरान्तिकार्थेभ्यश्चेति सप्तमी । किमिति न चित्र- 'मित्याह — चिरकालमुपितमिति | 'कालाऽध्वनोरत्यन्तसंयोगे |२|३|५|' इति द्वितीयां विधाय 'अत्यन्तसंयोगे च |२|१||२९|| इति द्वितीयासमासः | ज्जीर्ण चिरकालोपितत्वात् । 'लृषू वयोहानौ' । निष्ठा । 'ॠत इद्धातो: १७/१/१००।' इक: 'हलि च |८|२|७७१' इति दीर्घः । 'रदाभ्यां निष्ठातान: पूर्वस्य च दः ||२|४२|| इति निष्ठानत्वम् । कीटैर्घुणैर्निष्कुषितं खादितम् । ‘निरः कुषः’ इत्यनुवर्तमाने 'इग्निष्ठायाम् |७|२|४७|' इतीट् ॥४२॥ बनतापसके वीरौ विपक्षे गलिताऽऽदरौ । किं चित्रं यदि सावज्ञौ मम्रतुः खरदूषणौ ॥ ४३ ॥
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/१३६
दिखावट