(४२) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वितीयः- (उच्चैरित्यादि -- उच्चैर्महता ध्वनिना राघवं दाशरथिम् एवं वक्ष्यमाणमाहत आहूतवान् । ‘म्पर्धायामाङः |१|३|३१|' इत्यात्मनेपदम् । ‘आत्मनेपदेष्वन्यतर- स्याम् |२|४|४४॥ इति चलेरङ् । धनुः सवाणं कुरु । धनुषि बाणमारोप्य युद्धायं सज्जीभवेत्यर्थः । मातियासी: मातिक्रम्य गमनं कार्षीः । यातेर्माङि लुङ् । अडभावः । ‘यमरमनमातां सच |७|२|७३ | इति इट् | 'इट ईटि ८ । २ । २८ ।' इति सिचा लोपः । अथ क्षितीन्द्रो दशरथः तमूचे । ‘ब्रुवो वचिः ।२।४।५४ |' आदेशस्य स्थानिवद्भावेन कर्तुः क्रियाफलविवक्षायां तङ् न । वचेः परस्मैपदित्वात् । 'वचिस्वपियजादीन ति|६|१२|१५|| इति सम्प्रसारणम् । पराक्रमज्ञः यतस्तस्य पराक्रमं जानाति राजा । प्रियसन्ततिः प्रिया सन्ततिर्यस्य सः । रामे व्यापादिते मा भूत्सन्तानविच्छेद इति नम्र, प्रणतो भूत्वा अनुनिनीपुः अनुनेतुमिच्छुः ॥ ५१ ।। तद्नुनयमाह -- अनेकशो निर्जितराजकस्त्वं पितॄनताप्सर्नृपरक्ततोयैः । सक्षिप्य संरम्भमसद्विपक्षं काऽऽस्थाऽर्भकेऽस्मिंस्तव राम रामे ५२ 6 अनकश इत्यादि-संरम्भं क्रोधं संक्षिप्य उपसंहर | क्षिपे: लोटि मध्य- मैकवचने रूपम् । श्यन् । एकमेकमिति विगृह्य | 'सङ्ख्यैकवचनाञ्च वसायाम् |५|४|४३।' इति शस् । पश्चान्नञ्समासः । अनेकशोऽनेकप्रकारमिति क्रिया- विशेषणमेतत् । निर्जितं पराजितं राजकं राज्ञां समूहो येन स निर्जित- शत्रुभूतराजमण्डल: । गोलोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाहुञ् ।४।२।३९।' इति वुञ् । त्वं पुनः पितॄनताप्स: प्रीणितवानसि । कैः-नृपर- चतोयैः । 'तृप प्रीणने ।' इत्यस्माल्लुङ् । सिच् | हलन्तलक्षणा वृद्धिः । असद्विपक्षम् असन्नविद्यमानो विपक्षो यस्मिन् संरम्भे । निर्जितराजकत्वात् । रामो विपक्ष इति चेदाह- “काऽऽस्थार्भकेऽस्मिंस्तव राम रामे।" इति । हे परशुराम अर्भके बालके रामे तव का आस्था क आदरोऽस्ति । नैवेत्यभिप्रायः ॥ ५२ ।। अजीगणद्दाशरथं न वाक्यं यदा स दर्पेण तदा कुमारः। धनुर्व्यकाङ्क्षद्गुरुबाणगर्भं लोकानलावीद्विजितांश्च तस्य ॥ ५३ ॥ अजीगणदित्यादि -- दाशरथं दशरथस्येदं दाशरथम् ।'तरयेदम् १ शत्रुप्रधानानामिति भावः । -
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/८०
दिखावट