( ३४) भट्टिकाव्ये जयमङ्गलासमेते- [ द्वितीयः- भावः । धृतं कार्मुकम् इषवश्च येन सः । यतः अहं राजन्यवृत्तिः ततोऽहं धृत- कार्मुकेपुरिति । ‘ धृतकार्मुकेषु " इति पाठान्तरम् । क्क राजन्यवृत्तिः सायुधेष्वित्यर्थः ॥ ३५ ॥ इत्थंप्रवाद युधि संग्रहारं प्रचऋतू रामनिशाविहारौ । तृणाय मत्वा रघुनन्दनोऽथ बाणेन रक्षः प्रधनान्निरास्यत् ॥३६॥ इत्थमित्यादि--इत्थम् अनेन प्रकारेण प्रवादः अन्योन्याभिवातो यत्र सं- प्रहारे तं संप्रहारं परस्पराभिभवलक्षणं प्रकृतवन्तौ | युधि रणभूमौ । युध्यन्ते अस्यामिति सम्पदादित्वादधिकरणे विप् | रामनिशाविहारौ । रामो निशा- विहारो निशाचरो मारीचश्चेत्यर्थः । निशायां विहारो यस्येति समासः । अथा- नन्तरं रघुनन्दनो रघुवंशस्य नन्दयिता रामो मारीचं बाणेन तत्सम्बन्धिान सत्यपि तृणाय मत्वा तृणमिव अवमत्य | 'मन्यकर्मण्यनादरे विभाषाऽप्राणिषु- २।३।१७।' इति चतुर्थी । तत्र प्रकृष्टकुत्सितग्रहणं कर्तव्यम् । इह मा भूत् । तृणं मत्वेति ।' प्रधनात् संग्रामात् । निरास्थत् अपनीतवान् ॥ ३६॥ जग्मुः प्रसाद द्विजमानसानि, द्यौर्वर्षुका पुष्पचयं बभूव । निर्व्याजनिज्या ववृते वचश्च भूयो बभाषे मुनिना कुमारः ॥ ३७ ॥ जम्मु रित्यादि--यागविघ्नकारिषु निरस्तेषु द्विजानां मानसानि मनांस्येव मानसानि । 'प्रज्ञादिभ्यश्च ५ | १४ | ३८ | इत्यण् । प्रसादम् अव्याकुलत्वं जग्मुः गतांनि । 'गमहनजनखनघसां लोप: कूङित्यनङ |६|२|१८|' इत्युपधालोपः । द्यौः पुष्पचयं वर्षका वर्षणशीला वभूव भवति स्म । 'लपपतपदस्थाभूवृषन- कमगमशृभ्य उकञ् ३ । २ । १५४ ।। इति उकञ् ।" न लोकाव्ययनिष्ठा- खलर्थतृनाम्-२ । ३ । ६९ । ' इति षष्ठीप्रतिषेधः । निर्व्याजं निर्विघ्नम् । इज्या यागः । 'व्रजयजोर्भावे क्यपू ३।३।९८|' इति क्यप् | ववृते वृत्तः । लिट् । भूयः पुनरपि मुनिना गाधेयेन | कुमारैः । अकृतदारकर्मत्वात् । वचो वक्ष्यमाणं बभाषे । कर्मणि लिट् । ब्रुवीत्यर्थग्रहणात् द्विकर्मकता वचः कुमारश्च ॥ ३७ ॥ महीय्यमाना भवताऽतिमात्रं सुराऽध्वरे घस्मरजित्वरेण | दिवोऽपि वज्राऽऽयुधभूषणाया हिणीयते वीरवती न भूमिः ॥ ३८॥ , 6 १ ' अत्र विषये सप्तमी । २ ' युद्धमायोधनं जन्यं प्रधनम् प्रविदारणम्' इत्यमरः ३ ' प्रसादस्तु प्रसन्नता' इत्यमरः । ४ ' दशरथस्य ' इति प्रकृतम् । दशरथस्येति विशिष्यावचनेन च तत्र तस्य वात्सल्यं ध्वन्यते । राम इत्यर्थः ।
पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/७२
दिखावट