सामग्री पर जाएँ

पृष्ठम्:रामचरितम् - भट्टिकाव्यम् - 1928.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

(४) भट्टिकाव्ये जयमङ्गलासमेते- [ आग्रः 6 च्लेः सिज्वक्तव्यः' इति च्ले: सिचि ' अनुदात्तस्य च यत्रोदात्तलोपः । ६।१ ५९।' इत्यमभावपक्षे रूपम् । पितॄंस्तर्पितवानित्यर्थः । सममंस्त बन्धून् मातृ- पित्रादिज्ञातीन्ं सम्मतवान्, सदा दानमानादिभिः पूजितवानित्यर्थः । मन्यते- रनुदात्तत्वात्तङ्, इट्प्रतिषेधश्च । येषां सिच इकार उच्चारणार्थस्तेषाम् ' हनः सिच् ।१।२।१४।' इति कित्करणज्ञापकान्नलोपाभावः । येषां तु इकार इत्ते- षामिदितत्त्वान्नकारलोपाभावः । आभ्यन्तरं शत्रुमजित्वा कथं परन्तप इत्याह- व्यजेष्ट षड्वर्गमिति । कामक्रोधलोभमोहमदमात्सर्याणां पण्णां वर्गः पड्वर्गः । तमभिभूतवान् । विपूर्वस्य जयतेः ' विपराभ्यां जेः ||१|३|१९| इति तङ् अरंस्त नीतौ सामादिषु सध्यादिषु च रतः, नीतिमानित्यर्थः । समूलघातं न्यव धीत् समूलान्नि:शेषानरी शत्रून्निहतवान् । उच्छेदनीया ये शन्नवस्तेष्विदं विधानम् । समूलोपपदाद्धन्तेः 'समूलाकृतजीवेषु हन्कृञ्ग्रहः ।३।४।३६।' इति णमुल् । ‘ हो हन्तेणिन्नेषु | ७ | ३ | ५४ ।' इति घत्वत्वं, 'वृद्धिः । 'हनस्त: |७|३|३२|| इति तत्वम् । कषादिषु यथाविध्यनुप्रयोगः | ३|४|४६ | इति " & यथाविध्यनुप्रयोगः । अनुप्रयोगे ' लुङि च |२||३|४|३|| इति वधादेशः । तस्याकारान्तत्वादुपदेशेऽनेकाच्त्वादिग्निषेधो न भवति । अतो लोपे कृते तस्य स्थानिवद्भावात् अतो हलादेर्लघोः |७|२|७|' इति विभाषावृद्धिर्न ‘ भवति ॥ २ ॥ .. वसूनि तोयं घनवद् व्यकारीत् सहाऽऽसनं गोत्रभिदाऽध्यवात्सीत् । न त्र्यम्बकादयमुपास्थिताऽसौ यशांसि सर्वेषुभृतां निरास्थत् ॥ ३ ॥ वसूनित्यादि -- वसूनि द्रव्याणि बन्धुव्यतिरेकेण बालादिभ्यो व्यकारीद्दत्त- वान्, विक्षिप्तवानिति वा । किरतेर्लुङि रूपम् । कः किमिवेत्यपेक्षायामाह- तायं घनवदिति । तोयमुदकम् | घनो मेघः फलनिरपेक्षतया यथा विीकररात तद्वत् । एवं सम्यक्पालनाद्रिन्द्रेण तुल्यत्वमाह - सहासनं गोत्रभिदाऽध्यवा- सीदिति । गोत्रभिदन्द्रेण सहासनमध्यवात्सीद्ध्युपितवान् । अनेनात्यन्तध- , | लुब्धान् दानेन, वृद्वान् महतो वा मानेन, दीनान् आश्रयणेन चेति यथायोगं सम्भा- व्यम् |२ इदमारभ्य प्रायः समाप्त्यन्तमिन्द्रवज्रोपेन्द्रवज्रयारूपजातिः, 'स्यादिन्द्रवज्रा यदि तौ जगौ गः' इति, 'उपेन्द्रवज्रा जतजास्ततो गौ ' इति, ' अनन्तरोदीरित लक्ष्मभाजौ पादौ यदीयाबुपजातयस्ताः । ' इति तल्लक्षणात् । ३ मेघवदित्यर्थः । इदं प्रत्युपकारापेक्षाशून्यत्वं सूचयति |४ त्र्यम्बकमेवोपास्थितति भावः । अनेन सनातनस्य विष्णोराराधनमन्तरैव स्वापेक्षयाऽधिकगुणत्वमपक्ष्य पितृत्वप्रख्यापनं सूचितम् ।