सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९० कादम्बरी । च मलिनं वचसि वपुपि च परुषमैदृष्टाश्रुतानुरूपमप्या कारप्रत्ययादेवानुमीयमानक्रौर्यदोपं पुपमद्राक्षम्। आलोक्य च तं तादृशमात्मन उपरि निष्प्रत्याश एवापृच्छम्–‘भद्र, कस्त्वम् । किमर्थं वा त्वया वद्धोऽस्मि । यद्यामिषतृष्णया तत्किमिति सुप्त एवं न व्यापादितोऽस्मि । किं मया निरागसा बन्धदुःखमनुभावितेन | अथ केवलमेव कौतुकात् । ततः कृतं कौतु - कम् | मुञ्च मामिदानीत्वं भद्रमुखः । मया खलु वैल्लभजनोत्कण्ठितेन दूरं गन्तव्यम् । अकालश्क्षेपक्षमं वर्तते में हृदयम् । भवानपि प्रणिधर्मे वर्तते । एवमुक्तः स मामुक्त • वान — 'महात्मन्, अहं खलु क्रूरकर्मा जात्या चाण्डालः । न च मया त्वमामिपलब्धेन र्धुतूहुलेन वा बद्धः । मम खलु स्वामी पक्कणाधिपतिरितो नातिदूरे मातङ्गकप्रतिबद्धायां भूमौ कृतावस्थानः तस्य दुहिता कौतुकमये प्रथमे वयसि वर्तते । तस्यास्त्वं केनापि दुरा- त्मना कथितो यथा जाबालेराश्रम एवंगुणविशिष्टो महाश्चर्यकारी शुकस्तिष्ठति । तया च श्रुत्त्रोत्पन्नकौतुकात्त्वग्रहणाय व्हव एवापरे मादृशाः समादिष्टाः । तदद्य पुण्यैर्मयासादि- तोऽसि । तदहं तत्पादमूलं त्वां प्रपयामि । बन्धमोक्षे चाधुना सा प्रभवति' इति । . आचरणे च कृष्णं श्यामं निवसने वस्त्रे कर्मणि क्रियायां च मलिनं कश्मलं वचसि वाचि वपुषि शरीरे च परुपं कठिनमदृष्टश्रुतमनुरूपं स्वरूपं यस्यैवंभूतमप्याकारप्रत्ययादाकृतेर्ज़ानादेवानुमीयमानमनुमया ज्ञायमानं क्रौर्यदोषं क्रूरतादूपणं यस्य स तमेवंविधं पुरुषं नरमद्राक्षं व्यलोकयम् । आलोक्य च निरीक्ष्य च तं तादृशमात्मनः म्वस्योपरि निष्प्रत्याशो निराश एवाहमपृच्छमप्रश्नयम् । हे भद्र, कस्त्वम् । किमर्थं कि प्रयोजनं वाहं वद्धोऽरिम । यद्यामिपतृष्णया मांसलिप्सया तत्तस्माद्धेतोः सुप्त एव निद्रां गत एव किमिति न व्यापादितो न हतोऽस्मि । किं बन्धदुःखमनुभावितेन प्रापितेन मया निरागसा निरपराधिना | अथ केवलमेव कौतुकादाश्चर्यादिति चेत्कृतं कौतुकं विहितं कुतूहलम् । 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः । भद्रमुखः कल्याणकृद्वदनस्त्वमि- दानीं सांत्रतं मां मुच त्यज | वल्लभजने प्रणयिनि जन उत्कण्ठितेन मयोत्केन मया वैशम्पायनेन दूरं दविष्टं ग न्तव्यं गमनीयं चलनीयम् । मम हृदयं चेतो मानसमकालक्षेपक्षमं कालविलम्बे समर्थ न वर्तते । भवानपि प्राणिधर्म एव वर्तते मनुष्योऽसीति तद्धर्मान्वेत्सि । एवमुक्तः कथितो मामित्युक्तवान्भणितवान् । किं तदि त्याह—महात्मन्निति । हे महात्मन् हे महानुभाव, अहं खलु निश्चये न क्रूरकर्मा निस्त्रिंशकर्मा कठिनकर्मा जात्या जन्मना । 'जातिः सामान्यजन्मनोः' इत्यमरः । चाण्डालः श्वपचः । न च मया चाण्डालेनामिपलुब्धेन मांसना कुतूहलेन कौतुकेन वा त्वं वद्धः संदानितः । खलु निश्चये । मम स्वामी पकणाधिपतिः पक्कण: • शबरावासस्तस्याधिपतिरीश इतः स्थानान्नातिदूरे नातिदविष्ठं मातङ्गकैरन्त्यजैः प्रतिवद्धायां कृतगृहादिरचनायां भूमां कृतमवस्थानं येन सः । तत्र कृतनिवास इत्यर्थः । 'पक्कणः शवरावासो घोपस्त्वाभीर पल्लिका' इति हैमः । । पणी sa sat sa आ I