उत्तरभागः | ५९१ अहं तच्छ्रुत्वा मुक्ताशनिनेव ताडितः शिरसि संविघ्नान्तरात्मा चेतस्यकरवम् – 'अहो मे मन्दपुण्यस्य दारुणतरः कर्मणां विपाकः । येन मया सुरासुरशिरः शेखराभ्यर्चितचरण- सरसिजायाः श्रियो जातेन जगत्रयनमस्यस्य महामुनेः श्वेतकेतोः स्वहस्तसंवर्धितेन दिव्य- लोकाश्रमनिवासिना भूत्वा म्लेच्छजातिभिरपि दूरतः परिहृतप्रवेशमधुना पचणं प्रवेष्ट- व्यम् । चण्डालैः सबैकत्र स्थातव्यम् | जैरन्मातङ्गाङ्गनाकरोपनीतैः कवलैरात्मा पोपणीयः । चण्डालबालकजनस्य क्रीडनीयेन भवितव्यम् | दुरात्मन् पुण्डरीकहतक, धिग्जन्मलाभं ते । यस्य कॅर्मणामयमीदृशः परिणामः । किमर्थं प्रथमगर्भ एव न सहस्रधा शीर्णोऽसि । मातः, श्रीरशरणजनशरणचरणपङ्कजेऽतिगहनभीषणादक्ष मामस्मान्महानरकपातात् | तात भुवन- त्रयंत्राणक्षम, त्रायस्ख कुलतन्तुमेकम् | त्वयैव संवर्धितोऽस्मि । वयस्य कपिञ्जल, यदि परापत्य त्वयास्मात्पापान मोचितोऽस्मि तदा जन्मान्तरेऽपि पुनर्मा कृथा मत्समागमत्र- त्याशाम्' इति । एतानि चान्यानि च चेतसा विलव्य पुनस्तमभ्यर्थनादीनमवदम् - 'भद्र- मुख, जातिस्मरो मुनिरस्मि जात्या | तत्तवापि मामस्मान्महतः पापसंकटादुद्धृत्य धर्मो । अहं वैशम्पायनस्तच्छ्रुत्वाकर्ण्य मुक्तो योऽशनिर्वत्रं तेन शिरस्युत्तमा ताडित इव संविन उद्विग्नोऽन्तरात्मा य स्यैवंभूत इति चेतसि चित्तेऽकरवं व्यधामन्वतिष्ठम् | अहो इति खेदे | मे मम मन्दपुण्यस्य स्वल्पसुकृतस्य कर्मणां कृतशुभाशुभानां दारुणतरोऽतिभयावहो विपाकोऽनुभवनकालः येन कारणेन मया सुरासुराणां देवदैत्यानां शिरः- शेखरैम लिमुकुटैरभ्यर्चितं पूजितं चरणसरसिजमङ्घ्रिपद्मं यस्या एवं विधायाः श्रियो लक्ष्म्या जातेनोत्पन्नन जगन्न- यनमस्यस्य त्रिभुवननमस्करणीयस्य महामुनेः श्वेतकेतोः स्वहस्तैर्निज पाणिभिः संवर्धितेन वृद्धिं प्रापितेन दिव्यो देवसक्तो य आश्रमो मुनिस्थानम् । 'आश्रमस्तु मुनिस्थानम्' इति हैमः । तत्र निवासिनावस्थानशीलेन भूत्वा । 'पुलिन्दा नाहला निष्टाः शबरा वरुटा भटाः | माला मिल्लाः किराताश्च सर्वेऽपि म्लेच्छजातयः एतैर्लेच्छजा- तिमिरपि दूरतः परिहृतः परित्यक्तःप्रवेशो यस्मिन्नेतादृशमधुना सांप्रतं पक्कणं प्रवेष्टव्यं तत्र प्रवेशः कर्तव्यः । चण्डा- लैरन्तेवासिभिः सह्रैकत्रैकस्मिन्स्थाने स्थातव्यमवस्थानं कर्तव्यम्।जरत्यश्चता मातङ्गानामङ्गनाः स्त्रियो युवत्यश्च ता- सांकरोपनीतैर्हस्तानीतैः कवलैर्गण्डोलकैरात्मा पोषणीयः । चण्डालवालकजनस्य क्रीडनीयेन क्रीडां कर्तुं योग्येन भ वितव्यम् । हे दुरात्मन् हे पापात्मन, हे पुण्डरीकहतक हे पुण्डरीकमारक, ते तच जन्मलाभं धिगस्तु | यस्य कर्म- णामयमीदृशः परिणामो विपाकः । प्रथमगर्भे एव सहस्रधा सहस्र प्रकारेण किमर्थं न शीर्णः शटितोऽसि हे मातः, श्रीः अशरणजनानां शरणमाश्रयं चरणपङ्कजं चरणकमलं यस्यास्तस्याः संबोधनम् | अतिगहनं दुरवगाहनं च तद्भीषणं चेति कर्मधारयः । अतिगहनं भीषणं तस्मादस्मान्महानरकपातान्महादुर्गनिपतनात्त्वं मां वैशम्पायनं रक्ष पाहि त्राहि । तस्मात्कारणाद्वे तात हे पितः हे जनक, भुवनत्रयस्य विष्टपस्य त्राणं रक्षणं तत्र क्षम समर्थ, एकं कुलपांशुलं कुलतन्तुं वा मां त्रायख रक्षं । 'पांसुल: पुंश्चले शंभो: खानेपांशुला भुवि ' इति विश्वः । त्व- ।
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८८
दिखावट