सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः । ५८७ तथा दूयमानहृदयं च तमवदम्- -'सखे कपिञ्जल, किं दूयसे । त्वयापि मन्दपुण्यस्य मम कृते तुरंगमतामा पन्नेन पराधीनवृत्तिना बहुतराण्येव दुःखान्यनुभूतानि । कथं सोमपानोचि- तेनामुनास्येन समुत्पादितसफेन रक्तस्रवाः खरखलीनक्षतयो विसोढाः । कथमयमकठोरकि- सलयशयनीयैकॅसेवासुकुमार: सदा पर्याणितस्य न शीर्ण : पृष्ठवंशः । कथमेषु कुसुमोचया- पतितवालवनलतास्पर्शमात्राक्ष मेपु गात्रेषु कशाभिघाता निपतिताः । कथं च ब्रह्मसूत्रोद्वा- हिनि देहेऽस्मिँन्योत्पीडनकृता: पीडा: समुपजाताः' इत्येमिरन्यैश्च पूर्ववृत्तान्तालापैस्तत्काल- विस्मृत तिर्यग्जातिदुःखः सुखमतिष्ठम् । उपारोहति च मध्याह्नं सवितरि हारीतः सह कपिञ्जलेन मां यथोचितमाहारमकारयत् । कृताहारश्च कपिञ्जलः क्षणमिव स्थित्वा मामब्रवीत् - 'अहं हि तातेन त्वां समाश्वासयितुं जाबालिपादमूलादा कर्मपरिसमाप्तेर्न त्वया चलितव्यम्' इत्येतचादेष्टुं विसर्जितः । अन्यद- हमपि तत्रैव कर्मणि व्ययतर एव । तद्वजामि संप्रति । अहं तु तच्छ्रुत्वा विषण्णवदनस्तं प्रत्यवदम् – 'सखे कपिञ्जल, एवंगते किं ब्रवीमि । किं च तातस्याम्दाया वा संदिशामि । सर्वं त्वमेव वेत्सि' इति । स त्वेवमुक्तो मया पुनः पुनस्तत्रावस्थानाथ मां संविधाय हारीतं } ww ना हस्तेन परामृदय परामर्शनं कृत्वा हृदयेन चेतसादूयताखिद्यत । तथा दूयमानहृदयं विद्यमानचेतसं च तं कपिञ्जलमहमचदमकथयम् । किं तदित्याह – सखे इति । हे सखे कपिजल, किं दूसये किं खिद्यसे । त्वयापि भवतापि मन्दपुण्यस्य स्वल्पसुकृतस्य मम कृते तुरंगमतामश्वतामापन्नेन प्राप्तेन पराधीनवृत्तिना परायत्तवृत्तिना परवशवृत्तिना बहुतराण्येवानेकान्येव दुःखानि कृच्छ्राण्यनुभूतानि साक्षात्कृतानि । कथं केन प्रकारेण सोमवल्ली तस्याः पानं तत्रोचितेन योग्येनामुनास्येन मुखेन समुत्पादितो विहितः सफेनः सडिण्डीरो रक्तस्त्रावो रुधिरच्युतिर्यामिरेवंविधाः खरं कठिनं यत्खलीनं कविका कवियं मुखयन्त्रणं तस्य क्षतयो व्रणा विसोढाः क्षान्ताः । कथमकठोरं सुकुमारं यत्किसलयशयनीयं तस्यैक सेच यैकसपर्यंया सुकुमारः सुको मलः सदा पर्याणितस्य संजातपल्ययनस्यायं पृष्ठवंशी रीढकः । 'रीडक पृष्ठवंशः स्यात्पृष्टं तु चरमं तनोः ' इति हैमः। न शीर्णः शटितः । कथं कुसुमानामुच्चयोऽवचयस्तस्मादापतिताः स्रस्ता वालवनलतास्तासां स्पर्शमा- त्रेणाक्षमेष्वसमर्थेष्वेषु गात्रेषु कशाभिघाता वर्मदण्डप्रहारा निपतिताः । कथं च ब्रह्मसूत्रोद्वाहिनि यज्ञोपवीत धारकेऽस्मिन्देहे शरीरे वनं वर्म तेन यदुत्पीडनं बन्धनं तेन कृता विहिताः पीडा बाधा: समुपजाताः समुत्पन्नाः । इत्येभिरन्यैश्च पूर्ववृत्तान्तालापैः प्राचीनोदन्तसंभाषणैस्तत्कालं तदात्वं विस्मृतं विस्मरणतामापनं तिर्यग्जातिदुःस्रं यस्यैवंभूतोऽहं सुखमन्वतिष्टमस्थाम् । सवितरि सूर्ये मध्याहमहो मध्यमुपारोहयधिरोहणं कुर्वति सति हारीतः कपिञ्जलेन सह मां वैशम्पायनं यथोचितं योग्यमाहारं भोजनमकारयदकल्पयत् । कृताहारश्च विहितभोजनश्च कपिञ्जलः क्षणमिव स्थिला मामब्रवीदवोचत् । अहं हि कपिजलस्तातेन पित्रा त्वां भवन्तं समावासयितुमाश्वासनां कर्तुं जाबालिपादमू-