सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी । चानुभूतास्मदालिङ्गनसुखी विस्मयोन्मुखेन मुनिकुमारकज ने नेक्ष्यमाणोऽन्तरिक्षमतिक्रम्य काप्यदर्शनमगात् । गते च तस्मिन्हारीतः समाश्वास्य मां शरीरस्थितिकरणायोदतिष्ठत् । उत्थाय चान्यं मुनिकुमारकं मत्या स्थापयित्वा निरगमत् । निर्वर्तित स्नानादिक्रियाकलाप चात्मनैव सहापराहसमये पुनर्मामाहारमकारयत् । ५८८ एवं चावहितचेतसा हारीतेन संवर्ध्यमानः कतिपयैरेव दिवसैः संजातपक्षोऽभवम् । उत्पन्नोत्पतनसामर्थ्यश्च चेतस्यकरवम् – 'गमनक्षमस्तु संवृत्तोऽस्मि तत्र नाम चन्द्रापीडोत्प- त्तिपरिज्ञानम् । महाश्वेता पुनः सैवास्ते । तत्किमुत्पन्नज्ञानोऽपि तद्दर्शनेन विनात्मानं निमे- पमपि दु:खं स्थापयामि | भवतु | तत्रैव गत्वा तिष्ठामि' इति निश्चित्यैकदा प्रातर्विहारनि• र्गत एवोत्तरां ककुभं गृहीत्वावहम् | अबहुदिवसाभ्यस्तगमनतया स्तोकमेव गत्वावशीर्यन्त इव मेऽङ्गानि श्रमेण । अशुष्यच्चं चुपुटं पिपासया | नाडिंधमेनौकम्पितकण्ठः श्वासेन । तद- वस्थश्च शिथिलायमानपक्षतिरत्र पताम्यत्र पतामीति परवानेषान्यतमस्य तमस्विनीतिमिर- संघातस्येवोर्ककरतिरस्कारिणो घनहरितपल्लवभरावनम्रस्यासन्नतरस्य सरस्तीरतरुनिकुञ्जम्यो- स्थानाय हारीतं संविधाय नियुज्य चानुभूतं मदालिङ्गनसुखं येनैवंभूतो विस्मयोन्मुखेन कौतुकोवांकृताननेन मुनिमतारकजनेन तापसशिशुजनेनेक्ष्यमाणो विलोक्यमानोऽन्तरिक्षमाकाशमतिकम्योल्लङ्घ्य काम्यदर्शनमन- वलोकनमगाद्ययौ | गते च तस्मिन्कपिञ्जलेन हारीतो मां समाश्वास्याश्वासनां दत्त्वा शरीरस्थितिकरणाय स्ना- नादिकृत उदतिष्ठदुत्थितो बभूव । उत्थाय चान्यं मुनिकुमारकं तापसकुमारकं मत्पार्थे मदस्य मत्समीपे स्थापयित्वा संन्यस्य निरगमनिर्ययौ निर्जगाम । निर्वर्तितो विहितः स्नानादिकः क्रियायाः कलापः समुदायो येन सोऽपराह्नसमये तृतीयप्रहरे पुनरात्मनेन सह स्वेनैव समं मामाहारमशन मकारयद्व्यधापयत् । एवं चावहितचेतसा सावधानचित्तेन हारीतेन संवर्द्धमानो वृद्धि प्राप्यमाणः कतिपयैः कियद्भिरेव दिवसः संजाती सुनिष्पन्नौ पक्षौ वाजौ यस्यैवंभूतोऽभवमजनिषम् । 'पक्षो गरुच्छदश्चापि पिच्छं वाजस्तनूरुहम्' इति हैमः । उत्पन्नं संजातमुत्पन्नस्योन्नयनस्य सामर्थ्य वलं यस्मै एवं विधश्च चेतसीत्यकरवमरचयम् । गमने चलने क्षमः समर्थस्त्वहं संवृत्तो निष्पन्नोऽस्मि । नामेति कोमलामन्त्रणे | चन्द्रापीडस्योत्पत्तिर्जन्म तस्य परिज्ञानमयबो- धः । चन्द्रापीडोत्पत्तिपरिज्ञानं तु जातमेवास्तीत्यर्थः । महाश्वेता च पुनः सैवास्ते विद्यते । तत्तस्मात्कारणादुत्पन्न- ज्ञानोऽपि संजातजातिस्मरणोऽपि तस्यादर्शनेनावलोकनेन विनात्मानं किं किमर्थं निमेषमप्यक्षिस्पन्दमात्रमपि दुःखं स्थापयामि । भवतु जायताम् । तत्रैवाच्छोदोपान्ते गत्वा तिष्ठाम्यवस्थानं करोमीति निश्चिय निर्णयं कृत्वै- कदैकस्मिन्समये प्रातः प्रभाते विहारार्थ यात्रार्थं निर्गत एवोत्तरामुदीचीं ककुभं दिशं गृहीत्वावहमचलम् । अब- हुदिवसैः स्तोकदिनैरभ्यस्तं प्रारब्धं गमनं येन स तस्य मावस्तत्ता तथा स्तोकमेव स्वल्पमेव गत्वा मे ममातानि ह स्तपादाहीनि श्रमेण प्रयासेनावशीर्यन्त इव स्फुट्यन्त इव | पिपासयोदन्यया शुष्यञ्शोषं प्राप्नुवचपुटं त्रोटिपुढं यस्य सः । 'चञ्चुस्त्रोटिरुभे स्त्रियौ' इत्यमरः । नाडिं धमतीति नाडिंधमः । एवं विश्वासनेनाकम्पितः प्र