५८६ कादम्बरी | चक्षुषा दृष्टः । दृष्ट्वा च प्रतिक्रियायै कर्म प्रारब्धम् । समारब्ध एव कर्मणि तुरगभावाद्वि- मुक्तो गताऽस्मि तातस्य पादमूलम् । गतं च मां दूरत एवोद्वाष्पदृष्टिर्विषण्णदीनवदनं भया- दनुपसर्पन्तमालोक्याहूयाज्ञापितवान्– 'वत्स कपिञ्जल, परित्यज्यतां स्वदोपशङ्का । ममैवायं खलु शठमतेः सर्व एव दोषः । येन जानताप्युत्पत्तिसमय एव वत्सस्य कृते नेदमौयुष्कर कर्म निवर्तितम् । अधुना सिद्धप्रायमेवेदम् | न दुःखासिका भावनीया | मत्पादमूले ताव स्स्थीयताम्' इत्येवमाज्ञापितस्तु तातेन विगतभीर्व्यज्ञापयम् – 'तात, यदि प्रसादोऽस्ति तो यत्रैवासावुत्पन्नस्तत्रैव गमनायाज्ञापयतु मां तातः' इत्येवं विज्ञापितस्तु मया पुनराज्ञापित- बान्—'वत्स, शुक्रजातावसौ पतितः । तद्गत्वापि तमद्य नैव वेत्सि नाप्यसौ त्वां वेत्तीति तत्ति- ष्ठतु तावत्' इति । अद्य च प्रातरेवाहूय मामाज्ञापितवान् – 'वत्स कपिञ्जल, महामुनेर्जावाले- राश्रमपदं सुहृत्ते प्राप्तः । जन्मान्तरस्मरणं चास्योपजातम् । तद्गच्छ संप्रति तं द्रष्टुम् । मदीयया चाशिपानुगृह्य वक्तव्योऽऽसौ । वत्स, यावदिदं कर्म पेरिसमाप्यते तावत्स्वयास्मिन्नेव जावाले: पादमूले स्थातव्यमिति । अपि च त्वदुःखदुःखिताम्बा ते श्रीरपि तस्मिन्नेव कर्मणि प रिचारिका वर्तते । तया तु शिरस्युपाघ्रायैतदेव पुनः पुनः संदिष्टम् । एवमुक्त्वाकठोरशिरीप कुसुमशिखासूक्ष्माग्रोद्भेदपक्ष्मलानि गात्राणि पुनः पुनः पाणिना परामृश्यान्तर्हृदयेनादूयत । वेव तातेन जनकेन पित्रा दिव्यचक्षुषा ज्ञाननेत्रेण दृष्टोऽवलोकितो निरीक्षितः । दृष्ट्वा च तत् प्रतिक्रियायै कर्म प्रारकर्तुमारब्धम् | समारब्धे एव कर्मणि तुरगभावादश्वशापाद्विमुक्तोऽहं तातस्य पादमूलं जनकस्य चर णमूलं गतोऽम्मि । गतं च मां दूरत एवोद्वाष्पदृष्टिरुयोभयातेर्विषण्णं विलक्षं दीनं दुःखितं वदनं मुखं यस्यैवंभूतं मामुपसर्पन्तमागच्छन्तमालोक्य निरीक्ष्याहूयाहानं कृत्वाज्ञापितवान्कथितवान् । हे वत्स कपिजल, स्वदोषस्य निजदूपणस्य शङ्कारेका परित्यज्यतां मुच्यताम् । खल्विति निश्चयेन । शठमतेर्मूर्खबुद्धे- मेमैवाय दोपः, येन कारणेन जानताप्यवबुध्यतापि मया श्वेतकेतुनोत्पत्तिसमय एव वत्सस्य पुण्डरीकस्य कृत आयुष्करं दीर्घजीवितकारि कर्म न निवर्तितं न कृतम् | अधुना सांप्रतमिदानी मिदं कार्य सिद्धप्रायमेव संजात मेव । अतो दुःखासिका न भावनीया | मनसि दुःखं नानेयमित्यर्थः । मत्पादमूले मच्चरणतले तावदवस्थी. यतामवस्थानं क्रियतामित्येवं तातेनाज्ञापितस्तु कथितस्तु विगतभीरहं व्यज्ञापयं विज्ञप्तिमकरवम् | हे तात हे पितः, यदि प्रसादः प्रसन्नतारित ततो यत्रैव यस्मिन्स्थलेऽसौ पुण्डरीक उत्पन्नस्तत्रैव तस्मिन्स्थले गमनाथ मामाज्ञापयत्वाज्ञां ददातु तातः इत्येवं विज्ञापितस्तु मया पुनर्मामित्याज्ञापितवानाज्ञां दत्तवान् । इतिद्योत्यमाह- वत्स इति । हे वत्स हे पुत्र हे सूनो, शुकजातावसौ पतितस्तत्तस्माद्धेतोगलापि तत्र तमद्य त्वं नैव वेत्सि नाप्यसौ शुकस्त्वां भवन्तं वेत्ति | तावत्सांप्रतं तद्गमनं तिष्ठत्वास्ताम् । अद्य च प्रातरेव प्रत्यूष एवाहूय मामाज्ञा- पितवानाज्ञां दत्तवान् । हे वत्स कपिञ्जल, महामुनेर्जावालेराश्रमपदं मुहृत्पक्षे सुहृत्ते प्राप्तः । अस्य शुकस्य जन्मा-
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५८३
दिखावट