सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कादम्बरी | प्रसादानुभवप्रत्याशालालसं हृदयम् । अन्यचैतन्मैनुष्यलोकेषु केन कदा वा दृष्टं श्रुतमनुभूतं वा यदस्माभिः पुण्यवद्भिः' इत्यभिहितवति राजलोके ससखीजना सपरिजना चोत्थाय स्वयं- मेवाचचित्य देवतार्चनकुसुमानि स्नात्वा निर्वर्तितचन्द्रापीडशरीरपूजासंस्कारा शरीरस्थिति- करणायादिदेश सकलमेव राजलोकम् । निर्वर्तितस्त्रानाशने च तस्मिन्नात्मनापि महाश्वेतयो- पनीतानि तथैव सह सपरिवारा फलान्युपभुक्तवती । कृताहारा च पुनस्तथैव चन्द्रापीडचर णावँकेनोद्वहन्ती तमपि दिवसमनयत् । अन्येश्च संजातदृढतरप्रत्यया चन्द्रापीडशरीरा- विनाशं प्रति मदलेखामवादीत् -'प्रियसखि, देवस्य शरीरमिदमुपचरन्तीभिरंवश्याशया- शापक्षयादस्माभिरघुनात्र स्थातव्यम् । तदिदमत्यद्भुतं वृत्तान्तं तातस्याम्बायाश्च गत्वा निवेदय । येर्ने नान्यथा मां संभावयतो दुःखेन वा मदीयेन न तिष्ठतः । यथा मामेवंविधां दुःखभा- गिनीमागत्य न पश्यतस्तथा करिष्यसि । न शक्नोम्यहं तातमम्बां च दृष्ट्वा शोकवेगं धार- यितुम् | मैया चोपरतमेव देवमालोक्य न रुदितम् | सा किमपरमधुना निःसंशयितजीविते देवे प्रतिपन्ननियमा रोदिमि' इत्यभिधाय तां व्यसर्जयत् । १५ गत्वागतया च तया 'प्रियसखि, सिद्धं तेऽभिवाञ्छितम् । एवं संदिष्टं तातेन चित्ररथेना- ५५० नमर्त्यलोकेषु केन वा कदा वा कस्मिन्काले वा दृष्टमवलोकितं श्रुतमाकर्णितं यदस्माभिः पुण्यवद्भिर नुभूतं साक्षात्कृतम् । इत्यभिहितवति कथितवति राजलोके सह सखीजनेन वर्तते या सा ससखीजना, सहपरिजनेन परिच्छदेन वर्तते या सा सपरिजना चोत्थायोत्थानं कृत्वा स्वयमेव देवतानामर्चनं पूजनं त दर्थ कुसुमानि पुष्पाण्यवचित्यावचयं कृत्वा स्नाला स्नानं विधाय निर्वर्तितो विहितश्चन्द्रापीडशरीरस्य पूजासंस्कारो यया सा । तत्र पूजार्चा संस्कारोऽधिवासनम् | सकलमेव समग्रमेव राजलोकं शरीरस्य स्थितिर्यस्मात्तच्छरीरस्थितिर्भोजनं तस्य करणं विधानं तदर्थमादिदेशादेशं दत्तवती । निर्वर्तिते विहिते स्नानाशने येन स तथा तस्मिन् । तस्मिंश्च राजलोके सत्यात्मनापि स्वेनापि महाश्वेतयोपनीतान्या- नीतानि तथा महाश्वेतयां सह तथैव सपरिवारा फलान्युपभुक्तवती । कृतो विहित आहारो ययैवंविधा च पुन- स्तथैव पूर्ववदेव चन्द्रापीडचरणावकेनोत्सङ्गेनोद्वन्ती धारयन्ती तमपि दिवसमनयद्यापितवती । अन्येद्युरन्य- स्मिन्काले चन्द्रापीडशरीरस्याविनाशोऽविनश्वरत्वं तं प्रति संजातः समुत्पन्नोऽतिशयेन दृष्टो दृढतरः प्रत्ययो विश्वासो यस्याः सा तथा मदलेखामवादीदभ्यधात् - हे प्रियसखि, देवस्य जन्द्रापीडस्येदं शरीरमुपचरन्ती- भिरुपचारं कुर्वन्तीभिरा शापक्षयाच्छापक्षयं यावदस्माभिरघुना सांप्रतमवश्यं निश्चितमाशया वाञ्छयात्राच्छो- दसरसोऽभ्यर्णे स्थातव्यम् । तदिदमत्यद्भुतमत्याश्चर्य वृत्तान्तमुदन्तं तातस्याम्बायाश्च गत्वा निवेदय कथय । येनान्यथान्यप्रकारेण मां कादम्बरी संभावयतो विचारयतो मदीयेन दुःखेन वा तिष्ठतः स्थितवतः । यथा माभेवंविधां दुःखभागिनीमागत्य समेत्य न पश्यतो नालोकयतः मातापितराविति शेषः । तथा त्वं करि- ष्यसि रचयिष्यसि । अहं तातं पितरमम्बां मातरं च दृष्ट्वावलोक्य शोकवेगं धारयितुं स्तम्भयितुं न शक्नोमि