पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४९ उत्तरभागः | श्रिया वदनम् । तथा च संवेलिताप्रभाग: स्निग्धः कुन्तलकलापः । तथैवैयमिन्दुशकलानु- कारिण: कान्तिर्ललाटस्य | तादृशमेवेदमामुकुलितनीलोत्पलद्युतिहारि कर्णान्तायतं लोचनद्व- यम् । तथैव चेमावहसतोऽपि विर्केसिताविवोद्भासितकपोलमूली सृक्कोपान्तौ । तादृश एवाभिनव किसलयच्छविरधरः । तथैव चेदं विद्रुमालोहितनखामुलीतलं पाणिपादम् । तदेवे- दैम विमलितसहजलावण्यसौकुमार्याणां सौष्ठव मैङ्गानाम् | तत्सत्या साँ भारती कपिञ्जलावे- दितश्च शापवृत्तान्त इति संभावयामि' इत्युक्तवत्यां मदलेखायामानन्दनिर्भरा महाश्वेताय दर्शयित्वा चन्द्रापीडचरणतलनिवद्धजीविताय राजपुत्रलोकयापि दर्शितवती । स तु विस्मयोत्फुल्ललोचनः सर्व एवावनितलनिवेशितशिरा: प्राणम्य चन्द्रापीडचरणौ रचिताञ्जलिर्जानुद्वयेनावनौ स्थित्वा कादम्बरी व्यंज्ञापयत् - 'देवि, त्वत्प्रभावोऽयं यदेवास्मा- नपुण्यवतः परित्यज्य दूरं गतस्यापि देवस्य तादृशमेवेदं अँसन्नेन्दुमण्डलद्युतिहार वीक्ष्यते वदनम् । तथैव चेदं चरणयुगल मैवभाति पुरेव प्रोत्फुल्लतामरसच्छायम् । तथैव च पुनः शतपत्रं कुशेशयम्' इत्यमरः । तथा च संवेलितश्चञ्चलोऽग्रभागो यस्यैवंभूतः स्निग्धः सचिक्कणः कुन्तलकलापः केशसमूहः । ‘चिकुरः कुन्तलो वालः कचः केशः शिरोरुहः' इत्यमरः । तथैव चेयमिन्दुशकलं चन्द्रखण्डमनु- करोत्येचंशीलस्य ललाटस्यालीकस्य कान्तिर्द्युतिः । तादृशमेवेदमामुकुलितमा कुमलितं यन्नीलोत्पलं नीलपद्मं तस्य द्युतिं हरतीत्येवंशीलं कर्णान्तं यावदायतं विस्तीर्ण लोचनद्वयं नेत्रयुग्मम् । तथैव चाहसतोऽपि हास्यमकु- वैतोऽपीमौ विकसिताविव विनिवाविवोद्भासिते कपोलमूले याभ्यां तावुद्भासितकपोलमूलौ । एवंभूतौ सृक्क योरोष्ठप्रान्तयोरुपान्तौ समीपौ । सृक्कशब्दोऽदन्तः क्लीबश्च । 'प्रान्तावोष्ठस्य सृक्विणी' इत्यमरः । तादृश एवा- भिनवो नूतनो यः किसलयः पल्लवस्तद्वच्छविः कान्तिर्यस्यैवंभूतोऽधर ओष्ठः तथैव पूर्ववदेवेदं विद्रुमं हेमकन्दल- स्तद्दालोहितं रक्तं नखा नखराः अङ्गुलयः करशाखातलमधोभागः । नखाश्चाङ्गुलयश्च तलं चेतीतरेतरद्वन्द्वः । एतादृशौ पाणिपादौ यस्य तत् । 'द्वन्द्वश्व प्राणि-' इत्येकवद्भावः । तदेवेदम विगलितमच्युतं यत्सहजलावण्यं स्वाभाविकलवणिमा तेन सौकुमार्याणां मृदूनामङ्गानां हस्तपादानां सौष्ठवं शोभनत्वम् | तत्तस्मात्कारणात्सा भा- रती वाणी सत्या यथार्था, कपिञ्जलेना वेदितो निवेदितश्च शापवृत्तान्तः सत्य इति संभावयामि संभावनां क रोमि । इत्युक्तवत्यामिति प्रतिपादितवत्यां मदलेखायामानन्देन प्रमोदेन निर्भरा कादम्बरी महाश्वेतायै दर्श- यित्वा दर्शनं कारयित्वा चन्द्रापीडस्य चरणतले निबद्धं जीवितं प्राणितं यस्य स तथा तस्मै राजपुत्रलोका यापि दर्शितवती दर्शनं कारितवती । स तु राजपुत्रलोको विस्मयेनाश्चर्येणोत्फुल्ले विकसिते लोचने यस्य सः । सर्व एव समग्र एवावनितले नि० वेशितं स्थापितं शिर उत्तमानं येन स तथा । चन्द्रापीडचरणौ प्रणम्य नमस्कृय रचिताञ्जलिर्नियोजितकरो जानुद्वयेन नलकीलयुग्मेनावनौ पृथिव्यां स्थित्वा कादम्बरी व्यज्ञापयद्विज्ञप्तिमकार्षीत् । कां विज्ञप्तिं चकारेत्या- 440 TITIKT