१५४० कादम्बरी । गलज्जलबिन्दुसंदोषमैयथाहलम्बिदीर्घशिखं मुखोपरिपरस्परासक्तेरसंस्कारमलिनतया सूचितचिरोर्ध्वबन्धं जटाकलापमुद्बह जलाईदेहास क्तेन बिसतन्तुमयेनेव ब्रह्मसूत्रेणोद्भास म्लानौरविन्दनीलपलाशप्रुष्ठपोण्डुरेण जीर्णमन्दारवल्कलेनाबद्धपरिकरः करेणाननाव नीर्जटा: समुत्सारयन्नश्रुजलच्छ लेनाच्छोदसरः सलिलमिवान्तः प्रविष्टमाताम्राभ्यामु नाभ्यामुद्विग्नाकृतिस्तापसकुमारकः सहसैवोदतिष्ठत् । उत्थाय च दूरत एवोद्दामबा निरोधपर्याकुलया प्यँलब्धलक्ष्यया दृष्ट्या विलोकयन्तीं महाश्वेतामुपसृत्य शोकगद्गदमवा 'गन्धर्वराजपुत्रि, जन्मान्तरादिवागतोऽपि प्रत्यभिज्ञायतेऽयं जनो न वा' इति । पृष्टा शोकानन्दमध्यवर्तिनी संसंभ्रममुत्थाय कृतपोंदवन्दना प्रत्यवादीत् 'भगवन्कपि अहमेवंविधा पुण्यवती या भवन्तमपि न प्रत्यभिजानामि । अथ युक्तैवेदृशो मय्यनात्म संभावना याहमे कौन्तत एवं व्यामोहहता स्वर्ग गतेऽपि देवे पुण्डरीके जीवामि । त केनासावुत्क्षिप्य नीतः, किमर्थं वा नीतः, किंवास्य वृत्तम्, क वर्तते, किं वा तवोपज येनैतावतापि कालेन वार्तापि न दत्ता, तो वा त्वमेकाकी देवेन विना समागतः । स स विलग्नं शैवलोत्करमिव शैवालसमूहमिव गलत्क्षरजलबिन्दूनां संदोहो यस्मिन्स तथा । न यथास्थानम इत्येवंशीलं तत्तथा दीर्घायता शिखा चूडा यस्य तत्तथा । मुखस्य वदनस्योपर्युपरिष्टात्परस्परमन्योन्यमास लेषादसंस्कारेण केशमार्जनाभावेन मलिनतया चोपसूचितो ज्ञापितश्चिरकालीन ऊर्ध्ववन्धो यस्य तत्तथा कीदृशः । ब्रह्मसूत्रेण यज्ञोपवीतेनोद्भासमान उत्प्रावल्येन शोभमानः । कीदृशेन ब्रह्मसूत्रेण | जलेनाम्भसा देहः शरीरं तत्रासक्तेन संबद्धेन । अत एवोत्प्रेक्षते - विसतन्तुमयेनेव तन्तुलतन्तुनिष्पन्नेनेव | पुनः क जीर्ण चिरकालीनं यन्मन्दारस्य वल्कलं चोचं तेनाबद्धः परिकरो येन सः । कीदृशेन । म्लानान्यरवि कमलानि तेषां नीलपलाशानि पत्राणि तेषां पृष्ठं पृष्ठिभागस्तद्वत्पाण्डुरेण श्वेतेन । किं कुर्वन् । करेण समुत्सारयन्दूरीकुर्वन् । काः | जटाः | जटाः कीदृश्यः । आननमवरुन्धन्तीत्येवंशीला आननावरोधि अश्रुजलच्छलेन नेत्राम्बुमिषेणाच्छोदसरसः सलिलं पानीयमन्तः प्रविष्टमिवाताम्राभ्यामीषद्रक्ताभ्यां लोच नेत्राभ्यामुद्वहन्धारयन् । उद्विनोद्वेगं प्राप्ता आकृतिराकारी यस्य स तथा| अम्भसस्ताप सकुमारक उद व्यन्वयस्तु प्रागेवोक्तः । उत्थाय चोत्थानं कृत्वा च दूरत एवोद्दाममत्युग्रं यद्वाष्पजलमश्रुपानीयं तस्य प्रतिबन्धस्तेन पर्याकुलयापि व्याकुलयाप्यलब्धमप्राप्तं लक्ष्यं वेध्यं ययैवंविधया दृष्टया दृशा विलोक पश्यन्तीं महाश्वेतामुपसृत्य समीपे गत्वा शोकेन गद्गदमव्यक्ताक्षरं यथा स्यात्तथावादीदब्रवीत् । हे गन् जपुत्रि, जन्मान्तरादागतोऽप्ययं जनस्त्वया प्रत्यभिज्ञायत उपलक्ष्यते न वेति । सा तु महाश्वेता त्वे प्रश्नविषयीकृता शोकश्चानन्दश्च शोकानन्दौ तयोर्मध्यवर्तिनी ससंभ्रमं सादरं यथा स्यात्तथोत्थाय कृतं न्दनं चरणनमस्कृतिर्यया सैवंविधा प्रत्यवादीत्प्रत्यव्रवीत् । हे भगवन्कपिञ्जल, अहमेवंविधापुण्यवती य न्तमपि त्वामपि न प्रत्यभिजानामि नोपलक्षयामि । अथ मयनात्मज्ञायामात्माज्ञानवर्जितायामीदृशी सं
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३७
दिखावट