पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/५३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उत्तरभागः | ५४१ पृष्टी महाश्वेतया विस्मयोन्मुखेन कादम्बरीपरिजनेन चन्द्रापीडानुगामिना च राजपुतलोके- नोपर्युपरि पातिना वीक्ष्यमाणः प्रत्यवादीत् - 'गन्धर्वराजपुलि, श्रयताम् । अहं हि तथा कृतार्तप्रलापामपि त्वामेकाकिनीं समुत्सृज्य वयस्य स्नेहादाबद्धपरिकरः 'क मे प्रियसुहृ- हमपत्य गच्छसि' इत्यभिधाय तं पुरुषमनुबघ्न जवेनोदपतम् । स तु मे प्रतिवचनमदत्त्वैव गीर्वाणवर्त्मनि विस्मयोत्फुल्लनयनैरवलोक्यमानो वैमानिकैरवगुण्ठितमुखीभिरवमुच्यमानग- मनमार्गो दिव्याङ्गनाभिरभिसारिकाभिरालोलतारकेक्षणाभिरितस्ततः प्रणम्यमानस्तारका- भिरम्बरसरःकुमुदाकरमतिक्रम्य तारागणं चन्द्रिकाभिरामसकललोकं चन्द्रलोकमगच्छत् । तत्र च महोदयाख्यायां सभायामिन्दुकान्तमये महति पर्यङ्के तत्पुण्डरीकशरीरं स्थापयित्वा मामवादीत् – 'कपिञ्जल, जानीहि मां चन्द्रमसम् । अहं खलूदयं गतो जगदनुग्रहाय स्वव्यापारमनुतिष्ठन् । अनेन ते प्रियवयस्येन कामापराधाज्जीवितमुत्सृजता निरपराधःसंशप्तः 'दुरात्मन्निन्दुहतक, यथाहं त्वया करैः संतोपित उत्पन्नानुरागः सन्न संप्राप्तहृदयवल्लभासमा- गमसुख: प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते वर्षे जन्मनि जन्मन्येवोत्प हाश्वेतयैवं पृष्टो नियोजित उपरि चोपरि चोपर्युपरि पतितुं शीलं यल रा तेनेत्युभयोर्विशेषणम् । विस्मयेना- श्वर्येणोदूर्ध्व मुखमाननं यस्यैवंभूतेन कादम्बरीपरिजनेन गन्धर्वपुत्री परिच्छदेन चन्द्रापीडमनुगच्छती त्येवंशी- लेन राजपुत्रलोकेन च वीक्ष्यमाणो विलोक्यमानः प्रत्यवादीत्प्रत्यब्रवीत् । हे गन्धर्वराजपुत्रि, भ्रू- यतामाकर्ण्यताम् । अहं हि तथा तेन प्रकारेण कृतो विहित आर्तो दीनः प्रलापः प्रियाश्रित- काल्पनिकव्याहारो ग्रया सा तामपि त्वामेकाकिनीमसहायां समुत्सृज्य व्यक्त्वा वयस्य स्नेहान्मित्रप्री- तेरावद्धः परिकरः कटिप्रदेशो येन सः । केति । कुत्र मे मम प्रियसुहृदं वल्लभवयस्यमिममपह- व्यापहरणं कृत्वा गच्छसि प्रयासीत्यभिधायेत्युक्त्वा तं पुरुषमनुबघ्नन्ननुधावञ्जवेन वेगेनोदपतमूर्ध्वमग- च्छम् । स तु पुमान्मे सम प्रतिवचनं प्रत्युत्तरमदत्वैवाकथयित्वैव गीर्वाणवर्त्मन्याकाशे विस्मयेनाश्चर्येणोत्फु- छानि विकसितानि नयनानि नेत्राणि येषां तैर्वैमा निकैर्विमानवासिभिः सुरैरवलोक्यमानो वीक्ष्यमाणोऽवगु- ण्ठितान्याच्छादितानि मुखानि यासां ताभिर्दिव्याङ्गनाभिरभिसारिकाभिर्याः स्वयमेव प्रियमभियान्ति ता अभि सारिकास्ताभिरवमुच्यमानस्यज्यमानो गमनमार्गो यस्य सः | आलोलाश्चञ्चलास्तारकाः कनीनिका येष्वेतादृशे ईक्षणे यासां ताभिस्तारकाभिस्ताराभिरितस्ततः प्रणम्यमानो नमस्क्रियमाणः | अम्बरमेव सरस्तस्मिन्कुमुदा- करमिव । कमुदसमूहमिवेत्यर्थः । एवंविधं तारागणं तारकासमूहमतिक्रम्यलय चन्द्रिका ज्योत्स्ना तयाभि- रामो रमणीयः सकललोकः समग्रजनो यस्मिन्नेतादृशं चन्द्रलोकमगच्छदगमत् । तत्र चेति । चन्द्रलोके महोदय इत्याख्या यस्याः सा तथा तस्यां सभायां संसदीन्दुकान्तस्तेन निष्पन्न इन्दुकान्तमये महत्यायते पर्यपत्यके तत्पुण्डरीकशरीरं स्थापयित्वा न्यस्य मामवादीदवोचत् । हे कपिजल, चन्द्रमसं ग्रहं । ++ A हामाभ्यं गतः ।