सामग्री पर जाएँ

पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५४ कादम्बरी । विहस्य प्रकाशमवदम् – 'सखि महाश्वेते, किं त्वमेवमभिदधासि | दर्शनादारभ्य शरीरस्यां- प्यहं न विभुः, किमुत अवनस्य परिजनस्य वा । यत्राँसौ रोचते प्रियसखीहृदयाय वा तत्राय- मास्ताम्' इति । तच्छ्रुत्वा महाश्वेतावदत् - 'अत्रैवै त्वत्प्रासादसमीपवर्तिनि प्रमवने क्रीडा- पर्वतकमणिवेश्मन्यास्ताम्' इत्यभिधाय गन्धर्वराजं द्रष्टुं ययौ । चन्द्रापीडोऽपि तैयैव सह निर्गत्य विनोदनाथ वीणावादिनीभिश्च वेणुवाद्यनिपुणाभिश्च गीतकलाकुशलाभिश्च दुरोदर- क्रीडारागिणीभिश्चाष्टापदपरिज़यचतुराभिश्च चित्रकर्मकृतश्रमाभिश्च सुभापिंतपाठिकाभिश्च कादम्बरीसमादिष्टप्रतीहारीप्रेषिताभिः कन्याभिरनुगम्यमानः पूर्वदृष्टेन केयूरकेणोपदिश्यमा- नमार्ग: क्रीडापर्वतमणिर्मन्दिरमगात् । गते च तस्मिन्गन्धर्वराजपुत्री विसर्ज्य संकलसखी- जनं च परिमितपरिचारिकाभिरनुगम्यमाना प्रासादमारुरोह | तंत्र च शयनीये निपत्य दूरस्थिताभिर्विनयनिभृताभिः 'पॅरिचारिकाभिर्विनोद्यमाना कुतोऽपि प्रत्यागतचेतना चैका- किनी तस्मिन्काले 'चपले, किमिदमारब्धम्' इति निगृहीतेव लज्जया, 'गन्धर्वराज- पुत्रि, कथमेतद्युक्तम्' इत्युपालव्धेव विनयेन, 'अयमसावव्युत्पन्नो वालभावः क गतः ' इत्युपहसिते मुग्धतया, 'स्वैरिणि, मा कुरु यथेष्टमेकाकिन्यविनयम्' इत्यामश्रितेव नावस्थितिभावस्य समानत्वादेतन्मनोऽन्यासु लग्नमिति भावः । नवकपोलप्रतिबिम्वसंक्रान्तिवशात्प्रागेव दर्शि- तमित्यनुनयमाह — किं त्विति | त्वं किमभिदधासि किं कथयसि । दर्शनादारभ्यावलोकनात्प्रभृति शरीर- स्यापि देहस्याप्यहं न विभुः । देहं धारयितुं न समर्थ इत्यर्थः । स भवनस्य परिजनस्य वा किमुत भण्यते । यत्रेति । यन्स्मिस्थलेऽसौ चन्द्रापीडः | पुनरार्यामाह - प्रियेति । प्रियसखीहृदयाय रोचते रुचिविषयीभ वति तत्रायमास्तां तिष्ठतु | तत्पूर्वोक्तं श्रुत्वाकर्ण्य महाश्वेतावददवोचत् । अत्रैव त्वत्प्रासादसमीपवर्तिनि प्र मदवनेऽन्तः पुरोपवने क्रीडापर्वतकस्य मणिवेश्मनि रत्ननिर्मितगृह आस्तां तिष्ठत्वित्यभिधायेत्युक्त्वा गन्धर्वराजं द्रष्टुं ययौ गतवती । चन्द्रापीडोऽपि तयैव महाश्वेतयैव सह निर्गत्य बहिरागत्य कादम्बर्या समादिष्टा या प्रतीहारी द्वाररक्षानियुक्ता तथा प्रेषिताभिः प्रहिताभिर्वाणावादिनी भिर्वेणुवाद्यं वंशवाद्यं तत्र निपुणाभिर्दक्षाभिर्गीतं गानं त लक्षणा या कला विज्ञानं तत्र कुशलाभिर्दक्षाभिः । दुरोदरेति । दुरोदरक्रीडा द्यूतक्रीडा तस्यां राग अनुरागो विद्यते यासां ताभिः । अष्टापदः शारिफलं तत्र यः परिचयस्तस्मिंश्चतुराभिः । चित्रेति | चित्रकर्मालेख्यकर्म तत्र कृतो विहितः श्रमो याभिः। सुभाषितानि सूक्तानि तेषां पाठिकाभिः। एवं विधाभिः कन्यकाभिरनुगम्यमानः । अत्र कलानां भिन्नभिन्नाश्रयत्वसूचनार्थं चकारः । कीदृशो नृपश्चन्द्रापीडः । पूर्वदृष्टेन केयूरकेणोपदिश्यमानः प्रद- इर्यमानो मार्गः पन्था यस्य सः | क्रीडापर्वतमणिमन्दिरमगाद्गतवान् | भावशबलानि व्यञ्जयन्नाह — गते चे- ति । तस्मिंश्चन्द्रापीडे गते सति गन्धर्वराजपुत्री कादम्बरी सकलसखीजनं समग्रवयस्याजनं परिजनं परिच्छ- दलोकं च विसर्ज्य गृहे गम्यतामित्यादिश्य परिमितं परिचारिकाभिः स्तोकपरिच्छदस्त्रीभिरनुगम्यमाना प्रासादो देवभूपानां गृहं तमासरोहारूढवती । तत्र मणिमन्दिरे शयनीये शय्यायां निपत्य पतनं कृत्वा विरहव्याकुल- iffar. niðurfr. mf.