पूर्वभागः । ३०७ 9 9 यज्ञोपवीतम् अंसावसक्तकदलीगर्भपत्रचारुचीरम्, एकावली विशालाक्षमालम्, अविर लामलकर्पूरक्षोदभस्मधवलम् आवद्धमृणालेरक्षाप्रतिसरमनोहरम् मनोभवतवेषमास्थाय मत्समागममन्त्रमिव साधयन्तम्, 'भोः कठिनहृदये, दर्शनमात्रकेणापि न पुनरनुगृहीतोऽय- मनुगतो जनः' इति सप्रणयं मामुपलभमानमिव चक्षुषा, किंचिद्विवृत्ताधरतया जीवितमपह- र्तुमन्तः प्रविष्ठैरिवेन्दुकिरणैर्निर्गच्छद्भिर्दशनांशुभिर्धवलितपुरोभागम्, मन्मथव्यथविघटमान- हृदयनिहितेन वामेन पाणिना 'प्रसीद | प्राणैः समं प्राणसमे, न गन्तव्यम्' इति हृदयस्थितां मामिव धारयन्तम्, इतरेण च नखमयूखदन्तुरतया चन्दनमिव स्रवतोत्तानी कृतेन चन्द्रात- पमिव निवारयन्तम्, अन्तिकस्थितेन चाचिरोद्गतजीवितमार्गमिवोद्रीवेण विलोकयता तपःसु- हृदा कमण्डलुना समुपेतम्, कण्ठाभरणीकृतेन च मृणालवलयेन रैजनीकर किरणपाशेनेव संयम्य लोकान्तरं नीर्य॑मानम्, कपिञ्जलेन मद्दर्शनात् 'अब्रह्मण्यम्' इत्यूर्ध्वहस्तेन द्विगुणी- भूत बाष्पोद्गमेनाक्रोशता कण्ठे परिष्वक्तं तत्क्षणविगंतजीवितं तमहं पापकारिणी मन्दभाग्या महाभागमद्राक्षम् । उद्भूतमूर्च्छान्धकारा च पातालतलमिवावतीर्णा तदा वाहमगमम्, किम- STA १ 1 असेति । अंसे स्कन्धेऽवसक्तं स्थापितं कदलीगर्भपत्रवचारु मनोहरं चीरं येन स तम् । विशालेति । एकावल्येव विशाला विस्तीर्णाक्षमाला जपमाला यस्य स तम् | अविरलेति । अविरलो घनोऽनलो निर्मल एवंविधो यः कर्पूरक्षोदो घनसारचूर्णं तदेव भस्म विभूतिस्तेन ववलं शुभ्रम् | आवद्धेति | आवद्धा मृणालय तन्तुलस्य रक्षार्थ प्रतिसरी हस्तसूत्रं तेन मनोहरं शोभनम् । मनो इति । मनोभवव्रतवेषमास्थाय परिधाय मदीयो यः समागमस्तत्साधको मन्त्रस्तं साधयन्तमिवाराधयन्तमिव । इति मां सप्रणयं सस्नेहम् । चक्षुषा इति । उपलभमानमिवोपलम्भं ददानमिव । इतिशब्दद्योत्यमाह - भो इति । भोः कठिनहृदये, दर्शनमात्र- केणाप्ययमनुगतोऽनुरक्तो जनो न पुनरनुगृहीतो न स्वीकृतः । किंचिदिति । किंचिद्विवृतो योऽधर ओष्ट. स्तस्य भावस्तत्ता तथा जीवितमपहर्तुं दूरीकर्तुमन्तः प्रविष्टैरिन्दुकिरणैश्चन्द्र करैरिव निर्गच्छद्भिर्वहिरागच्छद्भि- र्दशनांशुभिर्दन्त किरणैर्धवलितपुरोभागं शुश्रीकृताम्रप्रदेशम् | मन्मथेति । मन्मथस्य कंदर्पस्य व्यथा पीडा तथा विघटमानं भिद्यमानं यद्धृदयं तत्र निहितेन स्थापितेन वामेन सव्येन पाणिना हस्तेन कृत्वा इति हृदय- स्थितां मामिव धारयन्तं रक्षन्तम् । इतिवाच्यमाह - प्रसीदेति । हे प्राणसमे, त्वं प्रसीद प्रसन्ना भव । अथ च प्राणैः समं न गन्तव्यम् । प्राणा गच्छन्तु, परं त्वया न गन्तव्यमिति भावः । एतेन प्राणेभ्योऽप्य- तिवल्लभा त्वमसीति ध्वनितम् । इतरेणति । इतरेण दक्षिणपाणिनोत्तानीकृतेनोवकृतेन चन्द्रातपं कौमुदीं निवारयन्तमिव निषेधयन्तमिव । किं कुर्वन्ती | चन्दनं मलयजं सवतेव क्षरतेव । कया | नखानां मयूखाः किरणास्तैर्दन्तुरतया विषमोन्नततया | अन्तिकेति । अन्तिकस्थितेन समीपवर्तिनोदीवेणाचिरोद्गतमचिरं तत्कालं गतं यज्जीवितं तस्य मार्ग पन्थानं विलोकयतेव पश्यतेव एवं विधेन तपःसुहृदा तपस्यामित्रेण क सणालयेन विस- STIE
पृष्ठम्:कादम्बरी-काशिनाथ पाण्डुरंग.djvu/३०५
दिखावट