338 संव्याख्यायामद्वैतसिद्धौ [प्रथमः प्रबोधायोगः; कारणात्मना संस्कारादेः सत्वात् । न च - मोक्षस्य दृगन्यत्वेन स्वाप्रमोक्षवत् दृष्टिसृष्टयापत्तिः; मोक्षस्य ब्रह्मस्वरूपत्वेन हग्भिन्नत्वासिद्धेः । न च – चैतन्यमात्ररूपा दृष्टिर्न सृष्टिः, किंतु वृत्तिविशिष्टचैतन्यरूपा वा, वृत्ति- रूपा वा दृष्टिः सृष्टिरिति वाच्यम्, तथा च तस्या अपि दृष्टयन्तरं सृष्टिरित्यनवस्थेति–चाच्यम्; चैतन्यमात्रस्य इति भावः । कारणात्मनेति । कारणीभूताज्ञानगतसूक्ष्मावस्था- रूपेणेत्यर्थः । तादृशरूपस्य तु न दृष्टिसृष्टिः । अत एव धर्मा- घर्मयोरपीश्वरप्रसादकोपरूपयोर्विहितानिषिद्धक्रियोत्तरं परोक्षतया दृश्य- मानयोः संस्काररूपेण पश्चादवस्थानान्न दोषः । अथवा --कारणी- भूतसाक्षिवीक्ष्यमाणसूक्ष्मावस्थारूपेणेत्यर्थः । तथा च यथाज्ञाना- कारा निर्विकल्पकवृत्तिस्तथा संस्काराकारापि सुषुप्तौ स्वीक्रियते, अनु- पपत्तेस्तुल्यत्वात् । एकस्या एव साक्षिसुखाज्ञानसंस्कारा कारत्वकल्पनान गौरवम्। एवर्माशे प्रसादकोपा कारवृत्युत्तरं प्रसादसंस्काराकारा वृत्तिर्वाच्या, ईशतत्प्रसादकोपानां साक्षिनिष्ठतत्तम्मनोनिष्ठानामेव साक्षिणा दृश्यत्वा- तत्संस्काराणामपि तत्तन्मनोनिष्ठानामेव दृष्टिसृष्टेस्तत्तन्निष्ठभोगजनकत्वो- पपत्तिः । नचाहं सुखीतिवदहं तत्तत्संस्कारवानित्या दिव्यवहारापत्तिरिति- वाच्यम्; संस्काराकारवृत्तिविशेषस्यैव तादृशव्यवहारदृष्टिसृष्टिप्रयोजक- त्वात् । नहि दृष्टिसृष्टिपक्षेऽपि सर्वापि वृत्तिर्व्यवद्दियते । उपेक्षात्व- कल्पनाच न ततः स्मृतिरित्यादि बोध्यम् । अथवा सौषुप्तसंस्काराणा- मित्र प्रसादकोपसंस्काराणामपि साक्षिण्येव निर्विकल्पिका वृत्तिर्न तु मनस्तादात्म्यविषयिकेति नोक्तव्यवहाराः । तेषामिव तेषामपि स्वपरिणा- मिमनःप्रवाहे स्वकार्यजनकत्वम् । वस्तुतः श्रुत्यादिसिद्धप्रसादकोपयोः कोपसं. - ग. 2 व्यवहारः -ग.
पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६५
दिखावट