पृष्ठम्:Advaita Siddhi with Guru Chandrika vyakhya.djvu/८६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारच्छेदः] दृष्टिसृष्टयुपपत्तिः दृष्टित्वे यद्यपि तत्समानसत्ताकतया घटादेः सदातनत्वापत्तिः, तथापि वृत्त्युपहितचैतन्यमेव दृष्टिशब्दार्थ: । वृत्तावपि वृत्ति- रेव स्वस्वरूपा चैतन्योपाधिरिति नानवस्था। अत एव- दोषाज्ञानादृष्टदेहेन्द्रियादीनामभावे न भ्रम इति तेषामपि दृष्टिसृष्टित्वेऽनवस्थेति-निरस्तम् ; स्वामभ्रमवद्देहेन्द्रियादिनैरपेक्ष्ये- णाप्युपपत्तेः । अन्वयव्यतिरेकानुविधानं च तद्वदेव । न च दृष्टिसृष्टेरपि दृष्टिसृष्टित्वेन घटादेरदृष्टिसृष्टित्वापत्तिरिति – स्वोपलक्षिततत्तन्मनःप्रवाहसंबन्धेन भोगहेतुत्वसंभवातत्संस्कारानभ्युप- 6 गमेऽपि न क्षतिः । एवं सुषुप्तावपि प्रपञ्चसंस्कारे मानाभावः, अस • दवेदेमग्र आसी' दित्यादि श्रुतिरपि दृष्टिविशेषानुवादिका ; मनः- प्रवाहघटकतया मनःसंस्कारमात्र कल्पनात् । तत्संबन्धेन पूर्वपूर्व 'प्रपञ्चस्याविद्याविशेषाणां वा प्रबोधे तत्तन्मनःपरिणामहेतुत्वसंभवा- दिति ध्येयम् । सदातनत्वेति । अनाद्यनन्तत्वेत्यर्थः । स्वस्वरूपेति । स्वच्छे सुखादौ चित्प्रतिबिम्बसंभवा द्वृत्त्यन्त रानभ्युपगमः, तदभ्यु - पगमेऽपि 2 परम्परविषयकवृत्तिद्वयस्वीकारान्नानवस्थादि । यदि तु तत्तद्दु- श्यावाच्छन्ना चिदेव" तत्तद्देश्यसत्तेति न सदातनत्वापत्तिरिति विभाव्यते, तथाप्यविद्यावृत्त्यनभ्युपगमेऽपि चाक्षुषत्वादिधर्मविशिष्टविषयत्वविशिष्ट स्यैव घटादेरुत्पत्तिर्वाच्या घटं पश्यामीत्याद्यनुभवस्यान्यथानुपपत्तेः । अत एव स्वप्ने तथा स्वीक्रियत इति भावः । अदृष्टिसृष्टित्वापत्ति- शित । दृष्टिसृष्टेस्तत्त्वेन मिथ्यात्वे घटादौ तदभावसिद्धिरिति भावः || '; तत्र तत्सिद्धावपि घटादे: स्वसमसत्ताकदृष्टिसिद्धिरव्याहता; यथा ज्ञानस्य ज्ञेयत्वेऽपि तद्विषयस्य नाज्ञेयत्वम्, तथा दृष्टिसृष्ट स्वसमसत्ताकदृष्टिसिद्धावपि तद्विषयघटादेरपि स्वसमसत्ताकदृष्टि- 1 पूर्वप्र-ग. 2 द्वृत्यन्तरानभ्युपगमंऽपि -ग. उच्छिन्नचिंदेव-ग. 21* 339