गौरीविनायकौ ताभ्यां उपेतं संयुतम् । किमर्थम् । सुखसंतानसिदध्यर्थम् । सुखं पर ब्रह्मानन्दात्मकं संतानः पुत्रपौत्रादि तयोः सिद्दिः प्रा्तिस्तदर्थ सुखसंतानसिदध्यर्थम् । नत्वा प्रणम्येति संबधः । त्रिभ्िर्विंशेषकम् ॥ १-३
छन्दःशब्देन किमुच्यते! इत्याह । पिङ्गलादिभिराचार्यर्यदुक्तं लौकिकं द्विधा । मात्रावर्णविभेदेनः छन्दस्तदिह कथ्यते ॥ ४
तदिदं शास्त्रे छन्दः कथ्यते । यत्पिंगलादिभिराचार्यैः छन्दःशास््रप्रयोक्तृभिरुक्तमभिहितम् । लौकिकं लोके भवं न वैदिकं । काव्यादिषु तस्यानुपयोगात् । द्विधा दविप्रकारम् । कथमित्याशंकायां मात्रावर्णविभरदेनेत्याह । मात्राभेदेन आ्यौदि वर्णभेदेन श्रीप्रभृति वृत्तभदेनेति ॥ ४
अथ ग्रन्थसंख्यामाह ।
षडध्यायनिबद्धस्य छन्दसोऽस्य परिस्फुटम् ।
प्रमाणमपि विजेयं ष््रिंशदधिकं शतम् ॥ ५
अधीयन्त इत्यध्यायास्ते च वक्ष्यमाणलक्षणाः
संजाभिधानमात्रावृत्तसमवृत्तार्धसमवृत्तविषमवृत्तषट्प्रत्ययलक्षणाः षडेव षड्भिर्निबद्धस्य छन्दःशास््रस्य प्रमाणं संख्या षट्त्रंशदधिकं शतं विजेयम् ॥ ५
अथ गणनामाह ।
म्यरस्तजभ्नगैलान्तैरेभिर्दशभिरक्षरैः ।
समस्तं वा्जयं व्याप त्रैलोक्यमिव विष्णुना ॥ ६ “गलः इति प्रथमाक्षरग्रहणमात्रेण गुरुलघुशब्दयोर्गृहणमि'त्याम्नायः ।
एश्िर्मयरसतजभनलतभगर्दैशभिरक्षरैः। समस्तमपि शब्दब्रह्म व्याप्तम् । किमिव । त्रैलोक्यमिव । केन । भवगता" नारायणेन । £
एतेषा प्रत्येकं लक्षणमाह ।
+ पाठे किमुच्यते ।
पाठे मात्राववर्णविभेदेन ।
९ पाठे प्रयोक्तिरुक्तमभिहितम् । 1 पाठे भागवता ।