पृष्ठम्:SukavihRdayAnandinI.djvu/१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
प्रथमोऽध्यायः

नमः सरस्वत्यै ।

सश्रीकं प्रभया युतं रुचिरया प्रोद्भासितं गङ्गया
नानावक्त्रविराजितं शशिकलापीडोच्छरयाऽलङ़्कृतम्‌ ।
आयेपितमुपस्थिताखिलगणस्रक्पूजितं सर्वदा
छंदःशास्त्रमिवेश्चरस्य जयति त्रैलोक्यवंद्यं वपुः ॥ १
कृष्णात्रेयस्य गोत्रे समजनि पुरा [१] दाक्षिणात्याग्रणीर्यो
वेलादित्याभिधानः सुकविरभवद्भास्वरस्तस्य सूनुः ।
तत्पुत्रः सुल्हणाख्यः सुललितपदां वृत्तरत्नाकराख्य-
छंदोवृत्तिं स चक्रे सुकविहृदयानंदनीनामधेयाम्‌ ॥ २

शास्त्रारंभे शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकशास्त्रसंबंधप्रयोजनं श्लोकत्रयेणाह ।

सुखसंतानसिद्ध्यर्थं नत्वा ब्रह्माच्युतार्चितम्‌ ।
गौरीविनायकोपेतं शंकरं लोकशंकरम्‌ ॥ १
वेदार्थशैवशास्रज्ञः पव्येकोऽभूद्द्विजोत्तमः ।
तस्य पुत्रोऽस्ति केदारः शिवपादार्चने रतः ॥ २
तेनेदं क्रियते [२] छन्दौ लक्षलक्षणसंयुतम्‌ ।
वृत्तरत्नाकरं नाम बालानां सुखबुद्धये ॥ 3

वेदानामर्था वेदार्था: । शिवो देवता येषां तानि शैवानि शास्त्राणि । वेदार्थश्च शैवशास्राणि च तानि जानातीति स तथोक्तः य पव्येको नाम द्विजौत्तमोऽभूत्तस्य पव्येकस्य केदारनामा शिवचरणाराधनपरः पुत्रोऽस्ति । तेन केदारेणेदं वक्ष्यमाणलक्षणं छन्दः क्रियते । लक्ष्यमुदाहरणं लक्षणं नियताक्षरमात्रागणरचना ताभ्यां संयुतं लक्षलक्षणसंयुतम्‌ । किं नाम । वृत्तरत्नाकर नाम । वृत्तानि श्रीप्रभृतीनि तान्येव रत्नानि तेषामाकर [३] उत्पत्तिस्थानम्‌ । किमर्थं । सुखसिद्धये । सुखेन सिद्धिः सुखसिद्धिस्तस्यै सुखसिद्धये । केषाम्‌ । बालानां मन्दबुद्धीनाम्‌ । किंकृत्वा । नत्वा । कम्‌ । शंकरं महादेवम्‌ । कथंभूतम्‌ । लोकशंकरं लोकानां शं सुखं करोतीति लोकशंकरस्तम्‌ । पुनः कथंभूतम्‌ । ब्रह्माच्युतार्चितं विरंचिनारायणपूजितम्‌ । पुनः कथंभूतं । गौरीविनायकोपेतं गौरी च विनायकश्च


  1. पाठे समजनि वपुरादाक्षिणात्याग्रणीर्यो |
  2. पाठे कृयते ।
  3. पाठे तेषामाकार ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/१&oldid=371646" इत्यस्माद् प्रतिप्राप्तम्