सर्वगुर्मो मुखान्तर्लौ यरावंतगलौ सतौ । ग्मध्यायौ ज्भौ त्रिलो नोऽष्टौ भवन्त्यत्र गणासिकाः ॥ ७
अस्मिन् छन्दःशास्त्र सर्वे गुरवो यस्यासौ सर्वगुर्मो मगणो यथा (555) । मुखान्तर्लौ यरौ मुखमादि अतर्मध्यं आदौ मध्ये लघू ययोस्तौ मुखान्त्लौँ यगणरगणौ (1५5, 515) | अंतगलौ सतौ । अते अवसाने गुरुलघू ययोस्तौ सगणतगणौ यथा (|।5, ऽ5॥) | ग्मध्या्यौ ज्भौ । गुरु मध्ये आदौ ययोस्तौ जगणभगणौ यथा (151, ऽ।|) । त्रिलो नः । त्रिलघुर्मगणो यथा (1||) । एते मयरसतजभनाऽष्टौ गणा भवन्ति वर्णवृत्तगणा भवन्तीत्यर्थः । मात्रागणानां वक्ष्यमाणसूत्रे विधानात् । चतुर्गुर्वादीनामपि गणादिसंज्ञा मा भूदित्याशंक्य नियमन्नाह । त्रिका इति त्रयः परिमाणं येषां ते त्रिका इति । ७
अथ मात्रागणानाह । जेयाः सर्वान्तमध्यादिगुरवोऽत्र चतुःकलाः । गणाश्चतुर्लघूपेताः पंचार्यादिषु संस्थिताः ॥ ८
आर्याप्रभृतिषु मात्रावृत्तेषु चतुःकला पञ्च गणा जातव्याः । कथम् । सर्वादिमध्यांतगुरवः सर्वे च ते आदिश्च मध्यं च अन्तश्च सर्वादिमध्यांतास्तेषु गुरवो येषां ते सर्वादिमध्यान्तगुरवः । चतुर्भिर्लघुभिरुपेताः सहिता वेदितव्याः । ८
गुरुलघुपरिजानार्थमाह । सानुस्वारो विसर्गान्तौ दीर्घो युक्तपरश्च यः । वा पादान्तस्त्वसौ ग्वक्रो जेयोऽन्यो मातृको लृजुः ॥ ९ इति ।
सहानुस्वारेण वर्तत इति सानुस्वारः । विसर्गान्तः सविसर्गः । दीर्घो द्विमात्रः । युक्तपरः संयोगपरो यौ भवति । चकारादव्यंजनांतोऽपि गृह्यते । परिमिताक्षरमात्रो गणारचितो वक्ष्यमाणलक्षणो वृत्तस्य चतुर्थांशः पादस्तस्यान्ते वर्तमानो लघुरपि विभाषया गुरुः स्यात् । स च कविसमयव्यवहारात् द्वितीयचतुर्थयोरेव पादयोरन्ते वेदितव्यः । यथा । प्रायः समासन्नपराभवानां धियो विपर्यस्ततमा भवन्ति ।
असंभवे हेममयस्य जन्तोस्तथाऽपि रामो लुलुभे मृगाय ॥ इति ।
तथा च |
श्रियः पतिः" श्रीमति शासितुं जगज्जगन्निवासो वसुदेवसद्मनि इत्यादि इष्टव्यम् ।
£ पाठे अमीषं | १ पाठे शर्वे । 10 पाठे श्रियपतिः ।