१. स्वर्गवर्गः] दाक्षिणात्यव्याख्योपेतः स्यात् किंनरः किंपुरुषस्तुरंगवदनो मयुः । निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः । ७३ ।। महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ । मुकुन्दकुन्दनीलाश्च चर्चाश्च निधयो नव ।। ७४ ।। इति श्रीमदमरसिंहकृते नामलिङ्गानुशासने स्वर्गवर्गः (वि.) स्यादिति–किंचिन्नरः किंनरः । किंचित् पुरुषः किंपुरुषः। कुत्सितो नरो वा । तुरंगस्येव वदनमस्य तुरंगवदनः । मयते विनिमयते' मयुः । 'मय गतौ' । एतानि किंनरनामानि || निधीयते' अत्रेति निधिः । 'डुधाञ् धारणपोषणयोः'। शेवं स्थाप्यं धनं धीयतेऽत्र शेवधिः' । निधिनाम ॥ महांश्चासौ पद्मश्च महापद्मः । पद्यते पद्मः । 'पद्ल सेवायाम् ' । शमयति दुःखं शङ्खः । ‘शमु उपशमे। मकरवद् ग्रहीतुमशक्यत्वात् मकर: । कूर्मवत् स्थितत्वात् कच्छपः । कमनीयत्वात् 'मुकुन्दः । कुन्दश्च । नितराम् ईड्यते' नीलः । ' ईड स्तुतौ' । चर्च्यन्ते चर्चाः । 'चर्च अध्ययने' । एतानि निधिभेद- नामानि ॥ ७३ - ४॥ इति श्रीलिङ्गयसूरिविरचितायाममरकोशपद विवृत्तौ स्वर्गवर्गनामलिङ्गविवेचनम् 1 वदनमिव वदनं B2, C. ना पुंलिङ्ग इत्यर्थः, एतत् काकाक्षिन्यायेन D.. सकारादिरप्यस्ति Dr. 2 नियमयति K 3. 3 नितरां धीयते पुष्यत इति; 4 तन्निधीयते D2. 5 सेवधिरिति हार: C. 8 पूज्यते C; डलयोरभेद: C. ४९ 6 उपरमे B2, D2, K2, W1; उपशमने A. 7 अत्र वर्णव्यति- 9 नवनिधि D2, K1, K2, K3, I. (पा.) स्यात् किंनर : – मयुः । किंनरनामानि । 'किमनेन गृहीतेन वागृहीतेन वा किंनरयुगलेन प्रयोजनम्' (काद. पृ. २२७) 'इदमुपश्रुतमश्वमुखद्वयम्' (पृ. २२७) इति कादम्बर्यामभेद: कथितः । ‘बिम्बोष्ठं बहु मनुते तुरंगवक्त्रश्चुम्बन्तं मुखमिह किंनरं प्रियायाः । श्लिष्यन्तं मुहुरितरोऽपि तं निजस्त्रीमुत्तुङ्गस्तनभरभङ्गभीरुमध्याम् ॥' इति माघकाव्ये (४. ३८) भेद: कथितः । अनुक्तम् – 'गुह्यकः स्यान्माणिचरः' । गुह्यकनाम ॥ 'यक्षः पुण्यजनः समौ' । यक्षनाम ॥ निधिर्ना शेवधिः । निधिनामानि ॥ ‘निधानगर्भामिव सागराम्बराम्' इति रघुवंशे (३. ९) ल्युडन्तनिधानशब्दोऽप्यस्ति । 'मानसेवधिमानसे' इति सेव्यप्रकृतिकसेवधिशब्दोऽप्यस्ति । भेदाः— निधेः । निधिभेदाः ।
पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२३
दिखावट