पृष्ठम्:अमरकोशः (दाक्षिणात्यव्याख्योपेतः).djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अमरकोशः [प्रथमकाण्डः (पा.) कुबेरः–वैश्रवणः । विश्रवः शब्दात् ‘तस्येदम् ' (४. ३. १२०) इत्यणि कृते विश्रवसो विश्रवणरवणाविति प्राप्ते विश्रवणादेशे वृद्धौ वैश्रवण इति रूपं सिद्धम् ॥ पौलस्त्यो– पुण्यजनेश्वराः । कुबेरनामानि । अनुक्तम्- ४८ 'कैलासनाथो हर्यक्षो रत्नगर्भः सितोदरः । इच्छावसुर्निधिपतिस्तथा स्यादेककुण्डलः ॥' एतानि च ॥ ७०-१।। 1 णित्वात् वृद्धौ सत्यां A.. अस्योद्यानं चैत्ररथं पुत्रस्तु नलकूबरः | कैलासः स्थानमलका पूर्विमानं तु पुष्पकम् ॥ ७२ ॥ (वि.) अस्येति—चित्ररथेन गन्धर्वेण निर्मितं 'चैत्ररथम्। 'कुबेरोद्याननाम॥ नल इव कूबरः चारुः नलकूबर: । 'नलस्येव 'कूबरो रथावयवोऽस्येति वा । कुबेर- पुत्रनाम ।। के शिरसि शिवयोः लासो नृत्यं, तदस्यास्तीति कैलासः । केलीनां समूहः कैलं, तेन आस्यते स्थीयत इति कैलास: ' । 'आस उपवेशने' । केलयोः जलभूम्योः आसनं स्थितिर्यस्य केलसः स्फटिकम् । तस्यायं कैलास: ? | कुबेरस्थाननाम || अलति स्वस्थानं भूषयतीति अलका । 'अल भूषणपर्याप्तिवारणेषु 8 | कुबेरनगरीनाम ॥ पुष्पमिव पुष्पकम् 10 | कुबेरविमाननाम” ॥ ७२ ॥ 1 °नामगन्धर्व ° U. 2 A, K2 add वनं. 3 °वन ° D1. 4 C adds महाराजस्य. 8 ° शक्ति- । 5 C adds युगंधरः; नले कमले कूयते कीर्त्यते नलकूः लक्ष्मीः, तया व्रीयते अभिलक्ष्यते नलकूबर:, 'ब्रीङ् वरणे', वबयोरभेद: D.. 6 के शिरसि इलायां लासोऽत्यन्त- मस्यास्तीति 'सरूपाणामेकशेष एक विभक्तौ' W2. 7W1 omits 2 lines. वारणवाचकम् । 'अल भूषणे वा' W2, Y; इति वा धातु: U. 9 एव, स्वार्थे कप्रत्ययः पुष्पसदृश मित्यर्थ: C. 10 पुष्यति श्रियमिति U. 11° पुष्पक° A, B1, K2, T. (पा.) अस्योद्यानं चैत्ररथम् । 'कुबेरोद्यानवननाम ॥ पुत्रस्तु नलकूबरः। तत्पुत्र- नाम | कैलासः स्थानम् | कुबेरस्थाननाम || 'अष्टापदो हराद्रिः स्यात् कैलासो रजताचलः' इत्ययमपि’ | अलका पूः | तन्नगरनाम ॥ विमानं तु पुष्पकम् । तद्विमानं तु पुष्पकं स्यात् ॥ ७२ ॥ 1 उद्यानं चैत्ररयं स्यात् A1. 2 A1 adds तत्प्रपञ्च एव.