एवं सर्गसंख्यायां न्यूनाधिकभावे हेतुरप्युच्यते । यथा (437 पुटे) 'एवमादावस्थले सर्गोच्छेदात् [१]ऋष्युपदिष्टसर्गसंख्यातोऽप्यधिकदर्शनम्' इति ।
एवं स्वस्य सूक्ष्मदर्शनसामर्थ्यबलाद्वा, प्रमाणान्तरबलाद्वा एते माधवयोगिनः प्रतिसर्गं लोकसंख्यां निष्कृष्य निर्दिशन्तीतीदं वैशिष्ट्यमप्यस्य व्याख्यानस्य । वदन्ति च तथा (78 पुटे) 'वयं तु श्लोकान् प्रतिसर्गं संगणय्य संकलय्य पश्चान्महासंख्यां परिच्छेत्स्यामः' इति । एतत्प्रतिज्ञानुरोधेन तथा प्रतिसर्गं कटपयादिसंख्यया श्लोकसंख्यां निर्दिशन्ति च । क्वचित्सर्गे लेखकप्रमादाद्वा अन्यस्माद्वा कारणात् श्लोकसंख्या न दृश्यते ।[२]
प्रतिदशसर्गं आहत्य श्लोकसंख्या च दशमसर्गान्ते विंशसर्गान्ते च निर्दिष्टा । तदुपरि तु न दृश्यते । स एषः कस्य वा प्रमादः? इति न जानीमः ।
बालकाण्डान्ते तु-
'बालकाण्डे तु सर्गाणां कथिता सप्तसप्ततिः ।
श्लोकानां द्वे सहस्रे च साशीतिशतकद्वयम् ॥
इत्याहत्य सर्गश्लोकसंख्या निर्दिष्टा । परन्तु तत्र प्रतिसर्गमुक्तसंख्यासंकलने एतछ्लोकोक्तसंख्यातो न्यूनाधिकभावो दृश्यते । तत्र कतरत् प्रामादिकमित्यादिविचारः नातिप्रयोजनक इति इदानीमुपेक्षितम् ।
प्रतिसर्गमुक्तायां संख्यायां विरोधप्रतीत्यादिकं तु तत्र तत्रैव[३] टिप्पण्यां परिशीलितम् । श्लोकसर्गकाण्डादिविषये बह्वयो वि-प्रतिपत्तयो वर्तन्ते । बालकाण्डः सर्वोऽपि प्रक्षिप्त इति, उत्तर-