वेश्मानि च्छादयद्यज्जलधरसमये शीतकाले निदाघे
पानीयस्फीतशीतातपनिविडतमोपद्रवान्संपिनष्टि ।
पावित्र्यं च प्रवीणा विदधति वदने येन सु(भु)क्तिक्रियान्ते
तेनाकिंचित्करत्वे नरसुपभिमते वीरणेनानभिज्ञाः ॥ २४७ ॥
अध्यासीनाश्ववारैरुपजनितभये हेषमाणैस्तुषारै-
र्गर्जत्स्फूर्जन्महौजोत्कटकरटिघटाकोटिभिर्दुष्प्रवेशे ।
सङ्ग्रामे कल्पकल्पेऽप्यरिजनविसरैर्मार्गणश्रेणिबद्धे
बध्येऽवध्ये नृपेऽपि प्रभवति यवसं प्राणविश्राणनाय ॥ २४८॥
यस्यैवाहारयोगाज्जगति सुरभयोऽजान्विता वा महिष्यः
सर्वाः संप्राप्तभूयो वपुरुपचितिका आज्यदध्नो निदानम् ।
क्षीरं लोकाय दद्युः सकलरसमहायोनिभूतं तृणं त-
ज्जाने जानन्त एते धिगखिक्कवयो नीरसं वर्णयन्ति ॥ २४९॥
उत्तुङ्गैस्तरुभिः किमेभिरखिलैराकाशसंस्पर्धिभि-
र्धन्योऽसौ नितरामुलूपविटपी नद्यास्तटेऽवस्थितः ।
एवं यः कृतबुद्धिरुद्धतजलव्यालोलवीचीवशा-
न्मज्जन्तं जनमुद्धरामि सहसा तेनैव मज्जामि च ॥ २५० ॥
रूढस्य सिन्धुतटमुपगतस्य तृणस्यापि जन्म कल्याणम् ।
यत्सलिलमज्जदाकुलजनहस्तालम्बनं भवति ॥ २५१ ॥
अथ ताम्बूलान्योक्तिः ।
वल्लीनां कति न स्फुरन्ति परितः पात्राणि किं तैरिह
स्निग्ध्यैरप्यतिकोमलैरपि निजामेवाश्रयद्भिः श्रियम् ।
तानेव स्तुमहे महाजनसुखश्रीकारिजन्मव्रता-
न्यान्सूते नवरागनागरसुखांस्ताम्बूलवल्लीछदान् ॥ २५२ ॥
अथ तुम्व्यन्योक्तयः ।
एके भेजुर्यतिकरगतास्तुम्बिकाः पात्रलीलां
गायन्त्यन्ये सरसमधुरं शुद्धवंशे विलग्नाः ।