सामग्री पर जाएँ

पृष्ठम्:अन्योक्तिमुक्तावली.djvu/१३२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
काव्यमाल ।

 नालस्यप्रसरो जडेष्वपि कृतावासस्य कोशे रुचि-
  र्दण्डे कर्कशता मुखेऽतिमृदुता मित्रे महान्प्रश्रयः ।
 आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषाकरे
  यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ १३० ॥
 यन्माता विष्णुनाभिः समजनि तनयो यस्य देवः स्वयंभू-
  र्लक्ष्मीर्यत्संश्रया भूर्यदपि करतले भारती संबभार ।
 भानुर्यस्यास्ति मित्रं तदपि सरसिजं क्षीणमिन्दोर्मयूखै-
  स्त्रातुं नैवोत्सहन्ते गतसुकृतफलप्रान्तकाले सहायाः ॥ १३१ ॥
  प्रसारितकरे मित्रे जगदुद्योतकारिणि ।
  किं न तैरेव लज्जा ते कुर्वतः पाणिसंवृतिम्‌ ॥ १३२ ॥
  लक्ष्मीसंपर्कजातोऽयं दोषः पद्मस्य निश्चितम्‌ ।
  यदेष गुणसंदोहधाम्नि चन्द्रे पराङ्मुखः ॥ १३३ ॥
 उदितवति द्विजराजे कस्य म हृदये मुदः पदं दधति ॥
 संकुचसि कमल यदयं हरहर वामो विधिर्भवतः ॥ १२४ ॥
  अन्तश्छिद्राणि भूयांसि कण्टका बहवो बहिः ।
  कथं कमलनालस्य माभूवन्भङ्गुरा गुणाः ॥ १३५ ॥
 एते च गुणाः पङ्कज सन्तोऽपि न ते प्रकाशमायान्ति ।
 यल्लक्ष्मीवसतेस्तव मधुपैरुपजीव्यते कोशः ॥ १३६ ॥
 कामं भवन्तु मधुलम्पटषद्पदौघ-
  संघट्टघुर्घुरघनध्वनयोऽजखण्डाः ।
 गायन्नतिश्रुतिसुखं विधिरेव यत्र
  भृङ्गः स कोऽपि धरणीधरनाभिपद्मः ॥ १३७॥

इति पङ्कजान्योक्तयः ।
 

अथ नलिन्योक्तयः ।

 रे पद्मिनीदल तवात्र मया चरित्रं
  दृष्टं विचित्रमिव यद्विदितं ब्रुवे तत्‌।