अथ मल्लिकायाः ।
नच गन्धवहेन चुम्बिता नच पीता मधुपेन मल्लिका ।
पिहितैव कठोरशाखया परिणामस्य जगाम गोचरम् ॥ १२० ॥
अथ पाटलायाः ।
पाटलया वनमध्ये कुसमितया मोहितस्था भ्रमरः ।
सैवेयमिति यथाभूततीतिरखान्यपुष्पेपु । १२१ ॥
अथ पङ्कजान्योक्तयः ।
सौवर्णानि सरोजानि निर्मातुं सन्ति शिल्पिनः ।
तत्र सौरभमानेतं चतुरश्चतुराननः ॥ १२२ ॥
दोषाकरे समुदिते मित्रे चास्तमुपागते ।
संकुच्य कमलेनेव स्थातव्यं दिनमिच्छता ॥ १२३ ॥
पङ्कज जलेषु वासः प्रीतिर्मधुपेषु कण्टकैः सङ्गः ।
यद्यपि तदपि तवैेतच्चित्रं मित्रोदये हर्षः ॥ १२४ ॥
कुसुमं कोशातक्या विकसति रात्रौ दिवा च कूष्माण्ड्याः |
अलिकुलनिलयं रुचिरं किंतु यशः कुमुदकमलयोरेव ॥ १२५ ॥
वरमश्रीकता लोके नासमानसमानता ।
इतीव कुमुदोद्भेदे कमलैर्मुकुलायितम् ॥ १२६ ॥
दूरादेत्य तवान्तरे चिरतरं यश्चञ्चरीकः स्थित-
स्त्वं सौरभ्यभरेण भावितरतिस्त्वय्येव सक्तश्चयः ।
सोऽयं त्वत्परितो भ्रमत्यनुदिनं मुक्तान्यकार्यः कज
त्वं यन्नो भजसे विकासमपि तदयुक्तं गुणाढ्यस्य ते ॥ १२७ ॥
कज भज विकासमभितस्त्यज संकोचं भ्रमत्ययं भ्रमरः ।
यद्यपि न भवति कार्यं तथापि तुष्टस्तनोत्ययं कीर्तिम् ॥ १२८ ॥
कोशं विकासय कुशेशय संश्रितालिं
प्रीतिं कुरुष्व यदयं दिवसस्तवास्ते ।
दोषागमे निबिडराजकरप्रतापे
दुस्थे समेष्यति पुनस्तव कः समीपे ॥ १२९ ॥