________________
२२४ तद्यथा - ईशान शिवगुरुदेवद्धतौ तत्परिभ्रमणादूर्ध्वं ताविष्ट्वा ज्ञानखड्गधृक् । . कुण्डे च मण्डले लिङ्गे शिवमिष्ट्वा विशेषतः ॥ ९० ॥
प्राग्वच्च नाडीसन्धानं कुर्याच्चाथाधिवासनम् ।
[क्रियापाद: दमनमूलं मृदा सहितं पश्चिमे सद्येन तन्नालं गन्धामलकं चोत्तरे वामेन. तत्पत्रं भस्म च दक्षिणेऽघोरेण तत्पुष्पं दन्तधावनं च प्राच्यां पुरुषेण तत्फलं गन्धपिष्टं चैशान्याम् ईशानेनान्यदपि सर्वं यागद्रव्यं यथावकाशं विन्यस्य दम- पञ्चानैरञ्जलिमापूर्य भगवन्तं प्रार्थ्यानेन तारमूलशिवायनमोन्तेनारोपयेत् । ओम् आमन्त्रितोऽसि देवेश ! प्रातःकाले मया विभो ! ॥ ५१ ॥ कर्तव्यं दामनं (पू ? प)र्व पूर्ण शक्त्या तवाज्ञया । अथारात्रिकमुत्तार्य नैवेद्यान्तं यजेत् ततः ॥ ५२ ॥
पवित्रकविधानेन हुत्वा सम्पातयेद् घृतम् । दमनापूरिते पात्रे सम्पूज्यास्त्राभिरक्षिते ॥ ५३ ॥
वर्मावकुण्ठितं कृत्वा कुम्भेशाग्रे निवेश्य तु । भक्ष्यं च विनिवेद्यास्मै हुत्वाघोरशताहुतीः ॥ ५४ ॥ बलिं विकीर्य बाह्ये चाप्यविसर्जितदैवतः ।
भुञ्जीताथ हविर्भुक्त्यै मुक्त्यै चोपवसेदपि ॥ ५५ ॥ ध्यायन् जपन् वा सङ्गीतैः कुर्याज्जागरणं निशि । ततः प्रत्युषसि स्नात्वा सूर्यद्वारार्चनादनु ॥ ५६ ॥
शम्भुं विसृज्य सापेक्षं पश्ञ्चशुद्धिपुरःसरम् । कुम्भाभिलिङ्गविम्वेषु नित्यवत् पूजयेच्छिवम् ॥ ५७ ॥ अपनीय तु निर्माल्यमविसर्जितदैवतः ।
विभवानुगुणं शम्भोः कृत्वा वैशेषिकार्चनम् ॥ ५८ ॥ सूर्ये दमनमारोप्य स्वमूलेनेश्वरान्तकम् । द्वारेशब्रह्मवास्त्वीश कुम्भास्त्रगणनायकान् ॥ ५९ ॥ गुरूंश्च दमनेनेष्ट्वा स्वमूलैरीश्वरान्तकैः ।
आरात्रिकं तथोत्तार्य देवाग्रे मण्डले स्वयम् ॥ १० ॥